________________
Jain Education
शनादेरचक्षुर्विषयतया साधूनामकल्यतां परिभाव्य तस्य प्रकाशनार्थ भास्वरतरं मणिं तत्र व्यवस्थापयति अभिप्रदीपौ वा कुरुते गवाक्षं वा कारयति लघुतरं वा सद् द्वारं बृहत्तरं करोति कुड्यच्छिद्रादि वा विधापयति, इत्थं यत्स्थानस्थितस्यैव देयवस्तुनः प्रकाशनं तत्प्रकाशकरणं, यत्पुनर्गृह मध्यवर्तिन्यां चुल्ल्यां स्वगृहार्थं राद्धस्यौदनादेरन्धकारादपसार्य बहिबुल्ल्यां चुल्लीव्यतिरिक्ते वाऽन्यस्मिन् सप्रकाशे प्रदेशे साधुदानार्थं स्थापनं प्रकटकरणं, एतच्च द्विविधमपि प्रादुष्करणं षट्कायोपमर्द प्रवृत्तिदोषादिसद्भावात् साधुभिर्वर्जनीयमिति ७ । 'कीय'त्ति क्रीतं यत् साध्वर्थ मूल्यादिना परिगृहीतं तच्च चतुर्धा - आत्मद्रव्यक्रीतं आत्मभावक्रीतं परद्रव्यक्रीतं परभावक्रीतं च तत्रात्मना - स्वयमेव द्रव्येण - उज्जयन्तादितीर्थशेषादिरूपपरावर्तादिकारिगुटिका सौभाग्यादिसम्पादकरक्षाटकादिरूपेण प्रदानतः परमावर्जयन् भक्तादि गृह्णाति तदात्मद्रव्यक्रीतं, दोषाश्चात्र उज्जयन्तादितीर्थशेषादि समर्पणानन्तरमेव दैवयोगेन तस्य गृहिणोऽकस्मादेव ज्वरादिके मान्धे जातेऽनेन साधुनाऽहं निराकुलः सन् ग्लानीकृत इत्यादिप्रजल्पनतः शासनस्य मालिन्यं स्यात् एवं ज्ञाते च राजादयः कर्षणकुट्टनादिकं विदध्युः, अथातो मन्दः सन् तेन शेषादिना समर्पितेन नीरोग: सम्पद्यते तदा चाटुकारिण एते यतय इत्युड्डाहो लोकस्य जल्पतो भवेत्, तथा निर्माल्यादिप्रदानेन प्रगुणीभूतशरीरस्य गृहव्यापारादिप्रयोजकतया पड्जीवघातापन्नः कर्मबन्धः स्यादित्यादयः १, तथा आत्मना - स्वयमेव भक्ताद्यर्थं धर्मकथकवादिक्षपकातापकक विप्रमुखैः धर्मकथोपन्यासादिलक्षणेन भावेन विधीयमानेन धर्मकथोपन्यासाद्याक्षिप्तेभ्यो जनेभ्यो यदशनादिकं गृह्यते तदात्मभावक्रीतं, दोषाश्चात्र निर्मल निजानुष्ठाननिष्फलीकरणादयः २ तथा परेण - गृहस्थेन साधुनिमित्तं सचित्ताचित्तमिश्र| भेदेन द्रव्येण कृत्वा यदशनादिकं क्रीतं तत्परद्रव्यक्रीतं, अत्र च षट्कायविराधनादयः प्रतीता एव दोषाः ३, तथा परेण - मङ्खादिना भक्ति वशात्साधु निमित्तं निजनिजविज्ञानप्रदर्शनादिरूपेण धर्मकथा दिरूपेण वा भावेन परमावर्ज्य यत्ततो गृहीतं तत्परभावक्रीतं मङ्गः- केदारको
For Private & Personal Use Only
jainelibrary.org