SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० विहृते भविष्यतीति विचिन्त्य यतिजने तत्रस्थ एवान्यद्विवाहलग्नं व्यवस्थापयति, अत्र च विवाहलग्नस्य भविष्यत्कालभाविनोऽवष्वष्कणं ६७ करणे कृत्वा यदुपस्क्रियते भक्तादि सा बादरावष्वष्कणप्राभृतिकेति, तथा किल काचित्कुटुम्बिनी सूत्रकर्तनादिव्यापारपरायणा बालकेन रुदता |४२ दोषाः भोजनं याच्यते, यथा मातः ! मम भोजनं प्रयच्छेति, तत्र च प्रवावे प्रत्यासन्नगृहेषु भिक्षामटन् साधुसङ्घाटकस्तया ददृशे, सा च तं । दृष्ट्वा सूत्रकर्तनादिलोभेन बालकं झपन्तं रुदन्तं च प्रत्यवादी-मा पुत्र! प्रलप मा रोदीश्च त्वं, इह मद्गृहे गेहानुगेहक्रमेण विचरन् यदि | यतिसंघाटकः समेष्यति तस्य भिक्षादानायोत्थिता सती तवापि तत्समयमेव भोजनं दास्यामीति, ततः साधुसङ्घाटके क्रमेणागते धर्माद्यर्थमुत्थाय भिक्षां ददाति बालकस्य च भोजनं, इह च यत्र क्षणे बालकेन याचितं भोजनं तदैव तया कर्तुमुचितस्य पुत्रभोजनदानस्य भविष्यत्कालभाविना साधुभिक्षादानेन समं यत्करणं तदुत्वष्कणं तत्र या प्राभृतिका सा सूक्ष्मोत्ष्वष्कणप्राभृतिका, तथा काचिद् गृहस्था कर्त्तनं कुर्वती भोजनं याचमानं बालकं प्रति वदति-कर्तयामि तावत्पूणिकामेकां पश्चात्ते भोजनं दास्यामीति, अत्रान्तरे च साधुगगतः, तत उत्थाय तस्मै मिक्षां ददाति बालकस्य च भोजनं, इह च रूतपूणिकाकर्त्तनसमात्यनन्तरं दातव्यतया बालकाय प्रतिज्ञाते भोजने साधुनिमित्तमर्वागुत्थानेन यदागेव बालकस्य भोजनदानं तदवष्वष्कणं तत्र या प्राभृतिका सा सूक्ष्मावष्वष्कणप्राभृतिकेति, इयं | |च प्राभृतिका साध्वर्थमुत्थिताया बालकभोजनदानादनन्तरं हस्तधावनादिनाऽप्कायाद्युपमर्दहेतुत्वादकल्पनीयेति ६। 'पाओयर'त्ति साधुनिमित्तं वह्निप्रदीपमण्यादिस्थापनेन भित्त्याद्यपनयनेन वा बहिनिष्काश्य धारणेन वा प्रादु:-प्रकटत्वेन देयस्य वस्तुनः करणं प्रादुष्करणं | तद्योगाद् भक्ताद्यपि प्रादुष्करणं, यद्वा प्रादुः-प्रकटं करणं यस्य तत् प्रादुष्करणं, तच्च द्विधा-प्रकाशकरणं प्रकटकरणं च, तत्र कोऽपि श्रावकः ॥१३९॥ साधुभक्तिभूषितमानसो निरन्तरं सत्पात्रदानपवित्रीकृतनिजपाणिपल्लवो मनाक् मन्दविवेकः सान्धकारगृहमध्यस्थितस्य साधुदेयस्या Jain Education For Private Personel Use Only V ainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy