________________
प्र. सा. २४
Jain Education
| ल्यादौ परस्थाने-सुस्थितकच्छच्वकादौ चिरकालमित्वरकालं च साधुदाननिमित्तं धार्यमाणमशनादिकं स्थापनेति भावः ५ । 'पाहुडियाएत्ति कस्मैचिदिष्टाय पूज्याय वा बहुमानपुरस्सरीकारेण यदभीष्टं वस्तु दीयते तत् प्राभृतमुच्यते, ततः प्राभृतमिव प्राभृतं साधुभ्यो देयं भिक्षादिकं वस्तु, प्राभृतमेव प्राभृतिका, यद्वा प्र इति प्रकर्षेण आ इति-साधुदानलक्षणमर्यादया भृता- निर्वर्तिता यका मिक्षा सा प्राभृता ततः स्वार्थिककप्रत्ययविधानात् प्राभृतिका, सा च बादरा सूक्ष्मा चेति द्विभेदा, तत्र बादरारम्भविषयतया बादरा स्थूलेत्यर्थः, स्वल्पारम्भविषयतया तु सूक्ष्मेति, एकैकाऽपि च द्विधा - उत्ष्वष्कणेन अवष्वष्कणेन च, तत्र स्वयोगप्रवृत्तिकालावधेः उत्-ऊर्द्ध परतः ध्वष्कणं - आरम्भस्य करणमुल्वष्कणमभिधीयते, तथा स्वयोगप्रवृत्तकालावधेरव - अर्वाक् ध्वष्कणं- आरम्भकरणमवष्वष्कणमुच्यते, इह हि | केनापि श्रावकेण कुत्रापि नगरे निजापत्यस्य विवाहः कर्तुमारेभे, लग्नं च भव्यं दत्तं ज्योतिषिकेण परं तस्मिन् समयेऽन्यत्र विहृतत्वेन तत्र गुरवो न सन्ति ततोऽसौ श्रावको विकल्पयति-अस्मिन् विवाहलमे सङ्घड्यामनेकाशनखाद्यादिमनोरमायां क्रियमाणायां जनखाद्यमेव सर्व भविष्यति, न व्रतिनां किञ्चिदुपयोगं यास्यति, कियद्दिनानन्तरं च यथाविहारक्रमं श्रीगुरवोऽप्यत्र आजिगमिषवः श्रूयन्ते, ततस्तत्समय एव मम विवाहः कर्तुं युज्यते येन साधूनामशनादिकं पुष्कलं ददामि तदेवाशनादिकं सफलं यत्सुपात्रेषु विनियोगं याति, एवं च महापुण्यमुपार्जितं स्यात् कल्याणं च महत् सम्पनीपद्यते, इत्यादि विचिन्त्य निष्टतिलग्नात्परतो गुरूणामागमनसमये विवाहं करोति, एवं च विवाहदिनस्योत्ष्वष्कणं कृत्वा यदुपस्क्रियते भक्तादि सा बादरोष्वष्कणप्राभृतिकेति तथा केनापि श्रावकेण स्वपुत्रादेर्विवाहदिनं किञ्चिन्निष्टङ्कितं, इतश्च निष्टङ्कितविवाहदिनादवगेव साधवस्तत्रागताः, ततोऽसौ परिभावयति - मयैतेषां साधूनां विपुलं विशिष्टं |च भक्तपानादिकं पुण्यार्थं दातव्यं तच प्रायेण विवाहादिके महति पर्वणि विशालं भवति, मत्पुत्रादिविवाहस्तु प्रारिप्सितो यतिजनेऽन्यत्र
For Private & Personal Use Only
w.jainelibrary.org