________________
६७ करणे
प्रव० सारोद्धारे तत्त्वज्ञानवि०
॥१३८॥
समरेसं । समणाणं आएसं निग्गंधाणं समाएसं ॥१॥” इति [यावतामुद्देशं पाषण्डिनां समुद्देशं भवेत् । श्रमणानामादेशं निम्रन्थानां| समादेशं ॥१॥] सर्वसङ्ख्यया विभागौद्देशिकं द्वादशप्रकारं भवति, अथ आधाकर्मकमौदेशिकयोः कः परस्परं प्रतिविशेषः?, उच्यते, | यत्प्रथमत एव साध्वर्थ निष्पादितं न स्वार्थ तदाधाकर्म, यत्पुनः प्रथमतः स्वार्थ निष्पादितं सत् भूयोऽपि पाककरगेन संस्क्रियते तत्कमौह| शिकमिति २ 'पूई-कम्मे यत्ति उद्गमादिदोषरहिततया पूते:-पवित्रस्य सतो भक्तादेरन्यस्याविशुद्धकोटिकभक्तादेरवयवेन सह सम्पर्कात् पूते:-पूतिभूतस्य कर्म-करणं पूतिकर्म, तद्योगाद्भक्ताद्यपि पूतिकर्म, अयमर्थः-यथा सौरभ्यमनोहरत्वादिगुणैर्विशिष्ठमपि शाल्यादिभोजनद्रव्यं कुथितगन्धाशुच्यादिद्रव्यलवेनापि युक्तमपवित्रं स्याद्विशिष्टजनपरिहार्य च तथा निरतिचारचारित्रिणो यतेनिरतिचारचारित्रस्य साति-18 चारतयाऽपवित्रत्वकरणेनाविशोधिकोटीनामवयवमात्रेणापि संयुक्तः स्वरूपतः परिशुद्धोऽप्याहार उपभुज्यमानो भावपूतेः कारणत्वात् पूतिरिति, तथा आधाकर्मिकाद्यवयवलेशेनापि संश्लिष्टाः स्थालीचटुककरोटिकादयोऽपि पूतित्वात्परिहर्तव्याः ३, 'मीसजाए यत्ति मिश्रेणकुटुम्बप्रणिधानसाधुप्रणिधानमीलनरूपेण भावेन जात-पाकादिभावमापन्नं यद्भक्तादि तन्मिश्रजातं, तत् त्रिधा-यावदर्थिकं पाखण्डिमिश्र साधुमिश्रं च, तत्र दुर्भिक्षादौ बहून भिक्षाचरानुपलभ्य तदनुकम्पया यावन्तः केचन गृहस्था अगृहस्था वा मिक्षाचराः समागमिष्यन्ति तेषामपि भविष्यति कुटुम्बे चेति बुद्धितः सामान्येन मिक्षाचरयोग्यं कुटुम्बयोग्यं चैकत्र मीलितं यत्पच्यते तद्यावदर्थिकमिश्रजातं, यत्तु केवलपाखण्डियोग्यमात्मयोग्यं चैकत्र पच्यते तत्पाखण्डिमिश्र, ययुनः केवल साधुयोग्यमात्मयोग्यं चैकत्र पच्यते तत्साधुमित्रं, श्रमणानां 3 पाखण्डिष्वन्तर्भावविवक्षणात् श्रमणमिश्र पृथङ् नोक्तं ४ । 'ठवण'त्ति स्थाप्यते साधुनिमित्तं कियन्तं कालं यावन्निधीयते इति स्थापना | यद्वा स्थापनं-साधुभ्यो देयमिमितिबुद्ध्या देयवस्तुनः कियन्तं कालं व्यवस्थापनं स्थापना तद्योगादेयमपि स्थापना, स्वस्थाने-चुल्लीस्था
॥१३८॥
-CS
Jain Educat
HAIL
For Private Personel Use Only
STww.jainelibrary.org