________________
वृत्तमशनादि तदोषौदेशिकं, ओवेन- सामान्येन खपरपृथग्विभागकरणाभावरूपेण औद्देशिकमोघौदेशिकमिति व्युत्पत्तेः, तथा विवाह - प्रकरणादिषु यदुद्धरितं तत्पृथक्कृत्वा दानाय कल्पितं सद्विभागौदेशिकं विभागेन -खसत्ताया उत्तार्य पृथक्करणेनौदेशिकं विभागौदेशिकमिति व्युत्पत्तेः, तत्रौघौशिकमेवं प्रायेण भवति इह कश्चिदनुभूतदुर्भिक्षबुभुक्षः सम्प्राप्तसुभिक्षो गृहस्थश्चिन्तयति, यथा- जीवितास्तावद्वयं कथमपि महाकष्टेनास्मिन् दुर्भिक्षे, इदानीं किमपि सम्प्राप्तवर्तनस्य प्रतिदिनमर्थिजनसम्पूर्णभोजनदानशक्त्यभावे मम मिक्षा अपि तावत्कि - यत्योऽपि दातुं युक्ताः, यतो नादत्तमिह जन्मन्यमुत्र च स्वर्गाद्यवास्योपभुज्यते, दत्तस्यैव भोगात्, नाप्यकृतं पुण्यं स्वर्गगमनाद्यवाप्तये सम्पद्यते, कृतस्यैव फलदानसमर्थत्वादिति, ततः पुण्योपार्जनबुद्ध्या यदा गृहिणा प्रतिदिवसं यावत्प्रमाणं भक्तं पच्यते तावत्प्रमाणे एव भक्ते पक्तुमारभ्यमाणे पाखण्डिनां गृहिणां वा मध्ये यः कोऽपि समागमिष्यति तस्य मिक्षादानार्थमेतावत् स्वार्थमेतावच मिक्षादानार्थमित्येवं विभागरहितमेव तण्डुलानधिकतरान् प्रक्षिपति तदा ओघौद्देशिकं भवति, विभागौदेशिकं पुनः प्रथमं तावत् त्रिधा - उद्दिष्टं कृतं कर्म च तत्र स्वार्थमेव निष्पन्नमशनादिकं मिक्षाचराणां दानाय यत्पृथक्कल्पितं तदुद्दिष्टं, यत्पुनरुद्धरितं सत् शास्योदनादिकं मिक्षादानाय करम्वादिरूपतया कृतं तत्कृतमित्युच्यते, यत्पुनर्विवाहप्रकरणादावुद्धरितं मोदकचूर्णादि तद्भूयोऽपि भिक्षाचराणां दानाय गुडपाकदानादिना मोदकादिरूपतया कृतं तत्कर्मेत्यभिधीयते, एकैकमपि पुनश्चतुर्धा - उद्देश समुद्देशादेशसमादेशभेदात्, तत्र यदुद्दिष्टं कृतं कर्म वा विभागौद्देशिकं यावन्तः केऽपि भिक्षाचराः पाखण्डिनो गृहस्था वा समागमिष्यन्ति तेभ्यः सर्वेभ्योऽपि दातव्यमिति यदा सङ्कल्पितं भवति तदा तदुद्देशसंज्ञमुच्यते, यदा पुनः पाखण्डिनां देयत्वेन कल्पयति तदा तत् समुद्देशाशयं, यदा श्रमणानां - शाक्यादीनां दास्यामीति चिन्तयति तदा तदेवादेशाभिधं, यदा च निर्मन्थानामेव-आईतयतीनां दास्यामीति परामृशति तदा तत् समादेशनामकं, न चैतदनार्ष, थत उक्तं "जाबतियमुद्देसं पासंडिणं भवे
Jain Educationational
For Private & Personal Use Only
www.jainelibrary.org