________________
*
***
*
पञ्चदश वाच्याः २२७ इति पञ्चाशत्तमगाथायां द्वाविंशत्युत्तरद्विशततमादीनि सप्तविंशत्युत्तरद्विशततमान्तानि षट् द्वाराणि ॥५१॥ परलोके गतिर्गुणस्थानकेषु मिथ्यात्वादिषु सत्सु २२८, तथा तेषां-गुणस्थानकानां कालपरिमाणं २२९, तथा नारकतिर्यग्नरसुराणामु-जला स्कृष्टो विकुर्वणाकाल: २३० इत्येकपञ्चाशत्तमगाथायामष्टाविंशत्युत्तरैकोनत्रिंशदुत्तरत्रिंशदुत्तरद्विशततमानि त्रीणि द्वाराणि ॥ ५२ ॥ सप्त
समुद्घाताः २३१, तथा षट् पर्याप्रयः २३२, तथाऽनाहारकाश्चत्वारः २३३, तथा सप्त भयस्थानानि २३४, तथा षट् भाषा अप्रसशस्ताः २३५, इति द्विपञ्चाशत्तमगाथायामेकत्रिंशदुत्तरद्विशततमादीनि पञ्चत्रिंशदुत्तरद्विशततमान्तानि पञ्च द्वाराणि ॥ ५३ ॥ भङ्गा
भेदा गृहिव्रतानां २३६, तथा अष्टादश पापस्थानान्यपि २३७, तथा मुनिगुणानां सप्तविंशतिः २३८, तथा एकविंशतिः श्रावकगुणानां २३९ इति त्रिपञ्चाशमगाथायां षट्त्रिंशदुत्तरद्विशततमादीनि एकोनचत्वारिंशदुत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥५४॥ तिर-2 श्वीनामुत्कृष्टा गर्भस्थितिः २४०, तथा मानुषीणामुत्कृष्टा गर्भस्थितिः २४१, तथा गर्भस्य च कायस्थितिः-कायस्यावस्थानं २४२, तथा || गर्भस्थितजीवस्याहारः २४३, इति चतुष्पञ्चाशत्तमगाथायां चत्वारिंशदुत्तरद्विशततमादीनि त्रिचत्वारिंशदुत्तरद्विशततमान्तानि चत्वारि * द्वाराणि ॥ ५५ ॥ स्त्रीसम्बन्धि यहतुसमये रुधिरं पुरुषसम्बन्धि च शुक्रं तयोर्योगे-मीलने सति यावता कालेन गर्भसम्भूतिस्तद्वाच्यं |२४४, तथा यावन्तश्च पुत्रा गर्ने २४५, तथा यावन्तः पितरश्च एकस्य पुत्रस्योत्पादने इति शेषः २४६ एवं पञ्चपञ्चाशत्तमगाथायां चतुश्चत्वारिंशत्पश्चचत्वारिंशत्षट्चत्वारिंशदुत्तरद्विशततमानि त्रीणि द्वाराणि ।। ५६॥ महिला गर्भस्यायोग्या यावता कालेन भवति, अबीजश्च-अवीर्यश्च पुरुषो यावता कालेन सम्पद्यते, तथा शुक्ररुधिरौजःपृष्ठकरण्डकपांशुलिकादीनां सर्वेषामपि शरीरस्थितानां परिमाणं वक्तव्यं २४७-२४८, इति षट्पञ्चाशत्तमगाथायां सप्तचत्वारिंशदुत्तराष्टचत्वारिंशदुत्तरद्विशततमे द्वे द्वारे ॥५७ ॥ सम्यक्त्वचारित्रा
-
--
Jain Educator
For Private & Personel Use Only
jainelibrary.org