________________
प्रव० सा- रोद्धारे तत्त्वज्ञा
२७६ द्वारनिर्देशः
नवि०
॥१०॥
देवानां स्थितिः १९४, तथा भवनानि १९५, तथा देहप्रमाणं १९६, तथा लेश्या १९७, तथाऽवधिज्ञानं १९८, चः समुच्चये, इति | चतुश्चत्वारिंशत्तमगाथायां चतुर्नवत्युत्तरशततमादीनि अष्टनवत्युत्तरशततमान्तानि पञ्च द्वाराणि ॥ ४५ ॥ एतेषां भवनपत्यादीनामुत्पद्यमानानां विरहः १९९, तथोद्वर्तमानानां विरहः २००, तथा एतेषामेकसमथेन उत्पद्यमानानां उद्वर्तमानानां च सङ्ख्या २०१, तथैतेषामुद्धृतानां यस्मिन् स्थाने गतिः २०२, तथा यतः स्थानादागतिरेतेषाम् २०३ इति पञ्चचत्वारिंशत्तमगाथायां नवनवत्युत्तरशततमादीनि | व्युत्तरद्विशततमान्तानि पञ्च द्वाराणि ॥४६॥ विरहः-अन्तरं सिद्धिगतेः २०४, तथा जीवानामाहारप्रणोच्छासाः २०५, तथा त्रीणि शतानि त्रिषष्टानि पाखण्डिनां २०६, तथाऽष्टौ प्रमादाः २०७, इति षट्चत्वारिंशत्तमगाथायां चतुरुत्तरद्विशततमादीनि सप्तोत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥ ४७ । भरतक्षेत्रस्याधिपाः २०८, तथा हलधरा-बलदेवाः २०९, तथा हरयो-वासुदेवाः २१०, तथा प्रतिवासुदेवाः २११, तथा रत्नानि चतुर्दश २१२, तथा नव निधयः २१३, तथा जीवानां सङ्ख्या २१४, इति सप्तचत्वारिंशत्तमगाथायामष्टोत्तरद्विशततमादीनि चतुर्दशोत्तरद्विशततमान्तानि सप्त द्वाराणि ॥ ४८ ॥ कर्माण्यष्टौ २१५, तथा तेषां कर्मणामुत्तरप्रकृतीनामष्टपञ्चाशदुत्तरं शतं २१६, तथा कर्मणां बन्धोदययोरुदीरणासत्तयोश्च किमपि स्वरूपम् २१७ इत्यष्टचत्वारिंशत्तमगाथायां पञ्चदशोत्तरषोडशोत्तरसप्तदशोत्तरद्विशततमादीनि त्रीणि द्वाराणि ॥ ४९ ॥ कर्मणां स्थितिः साबाधा-अबाधा-अनुदयकालः सह अबाधया साबाधा २१८, तथा द्विचत्वारिंशत्पुण्यप्रकृतयः २१९, तथा व्यशीतिः पापप्रकृतयः २२०, तथा भावषटुं सप्रतिभेदम् २२१ इत्येकोनपञ्चाशत्तमगाथायामष्टादशोत्तरद्विशततमादीनि एकविंशत्युत्तरद्विशततमान्तानि चत्वारि द्वाराणि ।। ५० ॥ जीवानां तथा अजीवानां तथा गुणानां-गुणस्थानानां तथा मार्गणास्थानानां प्रत्येकं चतुर्दशकं २२२-२२३-२२४-२२५, तथा उपयोगा द्वादश २२६, तथा योगाश्च
॥१०॥
Jain Education
For Private & Personal Use Only
Mainelibrary.org