SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ RECE N प्राणाः १७०, तथा दश च कल्पद्रुमाः १७१ इत्येकोनचत्वारिंशत्तमगाथायां सप्तषष्ट्युत्तरशततमादीनि एकसप्तत्युत्तरशततमान्तानि पञ्च द्वाराणि ॥ १४०॥ नरकास्तथा नारकाणामावासाः १७२-१७३, तथा वेदना नारकाणां १७४, तथा तेषामेवायुः १७५, तथा तेषामेव तनुमानं १७६, तथा तेषामेवोत्पत्तिनाशयोविरहः १७७, तथा तेषामेव लेश्याः १७८, तथा तेषामेवावधिः १७९, तथा परमाधाः -18 पारमाधार्मिकाः १८०, चः समुच्चये, इति चत्वारिंशत्तमगाथायां द्विसप्तत्युत्तरशततमादीनि अशीत्युत्तरशततमान्तानि नव द्वाराणि ॥४१॥ नरकादुद्धृतानां लब्धेः-तीर्थकरत्वादेः सम्भवः १८१, तथा तेषु नरकेषु येषां जीवानामुपपात:-उत्पादः १८२, तथा सङ्ख्योत्पद्यमाना-12 नामेकस्मिन् समये नरकेषु १८३, तथा सैव नरकेभ्य उद्वर्तमानामेकस्मिन् समये १८४, इयेकचत्वारिंशत्तमगाथायामेकाशीत्युत्तरश-18 ततमादीनि चतुरशीत्युत्तरशततमान्तानि चत्वारि द्वाराणि ॥ ४२ ॥ कायस्थितिः तथा भवस्थितिरेकेन्द्रियाणां-पृथिव्यप्तेजोवायुवनस्पतीनां 'विगल'त्ति 'एकदेशे समुदायोपचारात्' विकलेन्द्रियाणां-द्वित्रिचतुरिन्द्रियाणां संज्ञिनामसज्ञिनां च जीवानां १८५-१८६, तथैतेषामेव तनुप्रमाणं-शरीरप्रमाणं १८७, तथा 'इंदियसरूवविसय'त्ति इन्द्रियाणां स्वरूपं-आकारविशेषादिलक्षणं विषयाश्च तेषामेव वाच्याः, अत्र च समाहारैकत्वेऽपि प्राकृतत्वात्पुंसा निर्देशः १८८, तथा लेश्याश्चैतेषाम् १८९, इति द्विचत्वारिंशत्तमगाथायां पञ्चाशीत्युत्तरशततमादीनि एकोननवत्युत्तरशततमान्तानि पञ्च द्वाराणि ॥ ४३ ॥ एतेषामेकेन्द्रियविकलेन्द्रियसंज्ञिजीवानां यत्र स्थाने गतिः १९०, तथा येभ्यः स्थानेभ्य आगतिरेतेषां १९१, तथा एतेषामेवोत्पत्तिमरणयोर्विरहः-अन्तरमेकस्मिन्नुत्पन्ने मृते वा सति भूयः कियता कालेनान्य उत्पद्यते म्रियते वेत्येवंलक्षणं १९२, तथैतेषामेकसमयेन जायमानानां म्रियमाणानां च सङ्ख्या १९३ चः समुच्चये, इति त्रिचत्वारिंशत्तमगाथायां नवत्युत्तरशततमादीनि त्रिनवत्युत्तरशततमान्तानि चत्वारि द्वाराणि ॥४४॥ भवनपतिव्यन्तरज्योतिषिकविमानवासि CREARRECORRECACACAREAX Jain Education For Private & Personel Use Only ainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy