SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Jain Education t पिंडविसोही ४ समिई ५ भावण १२ पडिमा १२ य इंद्रियनिरोहो ५ पडिलेहण २५ गुत्तीओ ३ अभिग्गहा ४ चेव करणं तु ७० ॥ ५६३ ॥ 'पिंडे 'त्यादिगाथा, 'पिडि सङ्घाते' इत्यस्य ' इदितो नुम् धातो ( पा०७-१-५८) रिति नुमि कृते पिण्डनं पिण्डः - सङ्घातो, बहूनां सजातीयानां | विजातीयानां वा कठिनद्रव्याणामेकत्र समुदाय इत्यर्थः, समुदायश्च समुदायिभ्यः कथञ्चिदभिन्न इति त एव बहवः पदार्था एकत्र संश्लिष्टाः पिण्डशब्देनोच्यन्ते तस्य विविधं - अनेकैराधा कर्मादिपरिहारप्रकारैः शुद्धिः - निर्दोषता पिण्डविशुद्धिः, सं- सम्यक् प्रशस्ता अर्हत्प्रवचनानुसारेण इति : - चेष्टा समितिः - ईर्यासमित्यादिका, भाव्यन्ते इति भावना:- अनुप्रेक्षा अनित्यत्वादिकाः, प्रतिमाः - प्रतिज्ञा अभिग्रह प्रकारा मासिक्यादयः, इन्द्रियाणि-स्पर्शनादीनि तेषां निरोधः आत्मीयात्मीयेष्टानिष्टविषयरागद्वेषाभाव इत्यर्थः, प्रतिलेखनं प्रतिलेखना - आगमानुसारेण प्रति प्रति निरीक्षणमनुष्ठानं वा, सा च चोलपट्टादेरुपकरणस्य, गुप्तिः - गोपनमात्मसंरक्षणं मुमुक्षोर्योगनिग्रह इत्यर्थः, अभिगृह्यन्त इत्यभिप्रहाः - नियमविशेषा द्रव्यादिभिरनेकप्रकाराः चः समुच्चये एवकारः क्रमप्रतिपादनार्थः, एतत्करणं भवतीति क्रियत इति करणं मोक्षार्थिभिः साधुभिर्निष्पाद्यत इत्यर्थः, तुशब्दो विशेषेण मूलगुणसद्भावे करणत्वमस्य नान्यथेति (दर्शनाय ) । अत्राह परः - ननु समितिप्रहणेनैव २ पिण्डविशुद्धेर्गृहीतत्वान्न पिण्डविशुद्धिग्रहणं कर्तव्यं, यत एषणासमितौ सर्वाऽप्येषणा गृहीता, पिण्डविशुद्धिरप्येषणैव, तत्किं भेदेनोपन्यासः ? इति, अत्रोच्यते, पिण्डद्रव्यव्यतिरेकेणाप्येषणा विद्यते वसत्यादिरूपा तग्रहणार्थमेषणासमितिग्रहणं भविष्यतीति, पिण्डविशुद्धेस्तु भेदेनोपन्यासः कारणे ग्रहणं कर्तव्यं नाकारणे इत्यस्यार्थस्य ज्ञापनार्थः, अथवा आहारमन्तरेण न शक्यते पिण्डविशुद्ध्यादिकरणं सर्वमेव कर्तुमतो भेदेनोपन्यास इति । तत्र स्वयमेवैनां गाथां प्रतिपदं व्याख्यानयन् यैर्दोषै रहितस्य पिण्डस्य विशुद्धिर्भवति तान् दोषान् सामान्येन त्रिभे दानाह - •For Private & Personal Use Only कक ainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy