________________
प्रव० सा.
रोद्धारे
तत्त्वज्ञानवि०
॥ १३४ ॥
Jain Educatio
तद् प्रियत्वान्न तथ्यं, तथ्यमपि यदहितं यथा मृगयुभिः पृष्टस्यारण्ये मृगान् दृष्टवतो मया मृगा दृष्टा इति, तज्जन्तुजातघातपापनिमित्तत्वाद् न तथ्यमिति, अदत्तस्य - खामिनाऽवितीर्णस्यादानं महणं अदत्तादानं तच स्वामिजीवतीर्थकरगुर्वदत्तभेदेन चतुर्विधं तत्र स्वाम्यदत्तं - तृणदारुपाषाणादिकं तत्स्वामिना यददत्तं, जीवादत्तं यत्स्वामिना दत्तमपि जीवेनादत्तं यथा प्रब्रज्यापरिणामरहितो मातापितृभ्यां पुत्रादिर्गुरुभ्यो दीयते सचित्तपृथ्वी कायादिर्वा, तद्धि तत्स्वामिना दत्तमपि तदधिष्ठायक जी वैरदत्तमिति, तीर्थकरादत्तं - यत्तीर्थकरैः प्रतिषिद्धमाधाकर्मादि गृह्यते, गुर्वदत्तं नाम स्वामिना दत्तमाधाकर्मादिदोषरहितं गुरूनननुज्ञाप्य यद् गृह्यते, तस्माद्विरतिस्तृतीयं व्रतं, मिथुनं - स्त्रीपुंसद्वन्द्वं तस्य कर्म मैथुनं तस्माद्विरतिश्चतुर्थं व्रतं, परिगृह्यते-आदीयते असाविति परिग्रहः परिग्रहणं वा परिग्रहः, स च धनधान्यक्षेवास्तुरूप्यसुवर्ण चतुष्पद द्विपदकुप्यभेदान्नव विधस्तस्माद्विरति : - मूर्च्छापरिहारेण निवृत्तिः, 'मुच्छा परिग्गहो बुत्तों' इतिवचनात् न तु द्रव्यादित्यागमात्रं यस्मादविद्यमानेष्वपि द्रव्यक्षेत्र कालभावेषु मूर्च्छया प्रशमसौख्यविपर्यासेन चित्तविप्लवः स्यात्, सत्स्वपि च द्रव्यादिषु तृष्णात्यक्तमनसामसमप्रशमसुख संप्राध्या चित्तविप्लवाभाव:, अत एव धर्मोपकरणधारिणामपि मुनीनां शरीरे उपकरणे च निर्ममत्वानाम| परिमहत्वं यदाहुरस्मद्गुरवः - "धर्मसाधननिमित्तमुक्तवद्वत्रपात्रमुपकारि धारयन् । देहबन्न हि परिग्रही यतिः, प्रेम नास्य यदि मूर्च्छया सह ॥ १ ॥ एतानि यतीनां भवन्ति पश्चैव तुशब्दस्यैवकारार्थत्वान्न चत्वारि, प्रथमपश्चिमतीर्थकृत्तीर्थयोः पञ्चानामेव भावात्, महान्तिबृहन्ति तानि च व्रतानि च नियमा महाव्रतानि, महत्त्वं चैषां सर्वजीवादिविषयत्वेन महाविषयत्वात् उक्तं च-- "पढमंमि सव्वजीवा बीए चरिमे य सव्वदव्वाणि । सेसा महव्वया खलु तदेकदेसेण दव्वाणं ॥ १ ॥ [ प्रथमे सर्वजीवा द्वितीये चरमे च सर्वद्रव्याणि । शेषाणि महाव्रतानि खलु तदेकदेशेन द्रव्याणां ॥ १ ॥ ] इति, तेषां द्रव्याणामेकदेशेनेत्यर्थः ॥ अथ श्रमणधर्म माह - 'खंती 'त्यादि, क्षान्तिः
tional
For Private & Personal Use Only
६६ चरणसप्ततिः
गा. ५५२
६२
॥ १३४ ॥
v.jainelibrary.org