________________
-
त्रमद्याप्यगृहीतमस्ति, तदर्थ ज्ञानादित्रयमुपन्यस्तं इति, यच्चोक्तं श्रमणधर्मग्रहणे संयमतपसोरुपादानं न विधेय, श्रमणधर्मग्रहणेनैव तयोPाहीतत्वात् , तदप्यसाधु, संयमतपसोः प्रधानमोक्षाङ्गत्वेन पृथगुपादानात्, कथं मोक्षं प्रति प्रधानाङ्गत्वं इति चेत्, तत्र ब्रूमः-अपूर्व
कर्माश्रवसंवरहेतुः संयमः, पूर्वोपार्जितकर्मक्षयहेतुश्च तपः, ततः प्रधानत्वमनयोः, अतः श्रमणधर्मगृहीतयोरप्यनयोः प्रधानतया भेदेनोपन्यासः कृतः, दृष्टश्चायं न्यायो यथा ब्राह्मणा आयाता वशिष्टोऽप्यायातः, अत्र हि ब्राह्मणग्रहणेन वशिष्टस्यापि ग्रहणं कृतमेव तथापि प्रधानतया तस्य भेदेनोपन्यासः क्रियत इति, यच्चोक्तं-तपोग्रहणेन वैयावृत्त्यस्यापि ग्रहणाद्भेदेन तदुपादानं न विधेयमिति, तदप्यचारु, वैयावृत्त्यस्य यथा स्वपरोपकारकारित्वेन प्राधान्यं न तथाऽनशनादीनां शेषतपोभेदानामिति ख्यापनार्थ तस्य भेदेनोपादानं, | यच्चाभिहित-श्रमणधर्मग्रहणेनैव गृहीतत्वात्क्रोधादिनिग्रहः पृथग् न वक्तव्य इति, तदप्यसाधीयः, यतो द्विविधाः क्रोधादयः-उदीर्णा अनुदीर्णाश्च, तत्रोदीर्णानां क्रोधादीनां निग्रहणं क्रोधादिनिग्रहः अनुदीर्णानां तु तेषामुदयनिरोधनं क्षान्त्यादय इति ज्ञापनार्थ पृथगुपादानं, अथवा वस्तु त्रिविधं-पाचं हेयमुपेक्षणीयं च, तत्र क्षान्त्यादयो ग्राह्याः क्रोधादयो हेयाः अतो निग्रहीतव्यास्ते इत्येवमर्थमित्थमुपन्यासः, ततः सर्वमनवद्यमिति ॥ एनां च गाथा स्वयमेव सूत्रकारः प्रत्यवयवं व्याख्यानयति-'एकदेशेन समुदायोपचारात्' 'पाणिवह'त्ति प्राणिवधविरतिरिति द्रष्टव्यं, एवं मृषावादादिष्वपि, तत्र प्राणिनां-त्रसस्थावरजीवानां अज्ञान १ संशय २ विपर्यय ३ राग ४ द्वेष ५स्मृतिभ्रंश ६ योगदुष्प्रणिधान ७ धर्मानादर ८ रूपाष्टविधप्रमादयोगाद्वधो-हिंसनं प्राणिवधस्तस्माद्विरतिः-सम्यग्ज्ञानश्रद्धानपूर्विका निवृत्तिः प्रथमत्रतं, मृषा-अलीकं वदनं-प्रियपध्यतथ्यवचनपरिहारेण भाषणं मृषावादस्तस्माद्विरतिद्धितीयं व्रतं, तत्र प्रियं वचनं यत् श्रुतमात्रं प्रीणयति पथ्यं यदुत्तरकाले हितं तध्यं सत्यं, तथ्यमपि व्यवहारापेक्षया यदप्रियं यथा चौरं प्रति चौरस्त्वं कुष्ठिनं प्रति कुष्ठी त्वमिति
मानादर ८ रूपाष्टविध
भाषणं मृषावादस्तस्माद्विराचार प्रति चौरस्त्वं
Jain Educat
i onal
For Private Personel Use Only
How.jainelibrary.org