________________
Jain Education
क्षमा शक्तस्याशक्तस्य वा सहनपरिणामः सर्वथा क्रोधविवेक इत्यर्थः, मृदुः - अस्तब्धस्तस्य भावः कर्म वा मार्दवं – नीचैर्वृत्तिरनुत्सेकश्च, ऋजुः - अवक्रमनोवाक्कायकर्मा तस्य भावः कर्म वा आर्जवं - मनोवाक्कायविक्रियाविरहः मायारहितत्वमितियावत्, मोचनं मुक्ति:-बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदः लोभपरित्याग इत्यर्थः, तप्यन्ते रसादिधातवः कर्माणि वाऽनेनेति तपः, तच्च द्वादशविधमनशनादि, संयमः -आश्रवविरतिलक्षणः, सत्यं - मृषावादविरतिः, शौचं - संयमं प्रति निरुपलेपता निरतीचारतेत्यर्थः, नास्य किश्वनं - द्रव्यमस्तीत्यकिश्वनः तस्य भाव आकिञ्चन्यं, उपलक्षणं चैतत् तेन शरीर वर्मोपकरणादिष्वपि निर्ममत्वमाकिञ्चन्यं, नवत्रह्मचर्यगुप्तिसनाथ उपस्थसंयमो ब्रह्म, एष दशप्रकारो यतिधर्मः, अन्ये त्वेवं पठन्ति - "खंती मुत्ती अज्जव मद्दव तह लाघवे तवे चेव । संजम चियागऽकि श्वण बोद्धव्वे बंभचेरे य ॥ १ ॥” तत्र लाघवं - द्रव्यतोऽल्पोपधिता भावतो गौरवपरिहारः त्यागः - सर्वसङ्गानां विमोचनं संयतेभ्यो वस्त्रादिदानं वा, शेषं प्राग्वत् ॥ अथ संयममाह - 'पंचासत्रे 'त्यादि, आश्रूयते - उपायते कर्म एभिरित्याश्रवाः - अभिनवकर्मबन्धहेतवः प्राणातिपातसृषावादादत्ता| दानमैथुनपरिग्रहलक्षणाः पञ्च तेभ्यो विरमणं - विनिवर्तनं, इन्द्रियाणि - स्पर्शनरसनम्राणचक्षुः श्रोत्रलक्षणानि पञ्च तेषां निग्रहो - नियन्त्रणं | स्पर्शादिषु विषयेषु लाम्पट्यपरिहारेण वर्तनं, कषायाः - क्रोधमान मायालो भलक्षणाश्चत्वारस्तेषां जय:-अभिभवः उदितानां विफलीकरणेन अनुदितानां चानुत्पादनेन, दण्ड्यते चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डा- दुष्प्रयुक्ता मनोवाक्कायास्तेषां त्रयं दण्डत्रयं तस्य | विरति :-अशुभप्रवृत्तिनिरोधः, एष सप्तदशविधः संयमो भवति ॥ अथवाऽन्यथा सप्तदशविधः संयमो भवति - 'पुढवी 'त्यादि, पृथिव्युदकानिमारुतवनस्पतिद्वन्द्रियत्रीन्द्रियचतुरिन्द्रियपचेन्द्रियाणां मनोवाक्कायकर्मभिः करणकारणानुमतिभिश्च संरम्भसमारम्भारम्भवर्जन मिति नवधा जीवसंयमः, तत्र “संकप्पो संरम्भो परितातकरो भवे समारंभो । आरम्भो उद्दवओ सुद्धनयाणं तु सव्वेसिं ॥ १ ॥” [ संकल्प:
For Private & Personal Use Only
ainelibrary.org