________________
प्रव० सा
रोद्धारे
तत्त्वज्ञा
नवि०
॥ १३० ॥
Jain Educatio
तदनुरूपदेशनादिकरणेन संसक्तसम्पद् द्वितीया २, ग्रन्थान्तरे तु निषद्यादिमालिन्यपरिहाराय पीठफलकोपादानात्मिका द्वितीया सम्पदुक्ता, न चैतानि पीठादीनि न गृह्यन्ते, समये प्राहितत्वात्, तथा च जीतकल्पे - "पीढफलगाइगहणे न उ मइलिंती निसिज्जाई । वासासु विसेसेणं अन्नकालं तु गम्मपन्नत्थ ॥ १ ॥ पाणा सीयल कुंथाइया य तो गहण वासासु ।” [ पीठफलकादिग्रहणे नैव मलिन्यन्ते निषद्यादीनि वर्षासु विशेषेण अन्यकाले तु गम्यतेऽन्यत्र ॥ १ ॥ प्राणाः शीतलं कुन्ध्वादिकाश्च ततो ग्रहणं वर्षासु ] तथा यथासमयमेव | स्वाध्यायप्रत्युपेक्षणाभिक्षाटनोपधिसमुत्पादनात्मिका स्वाध्यायसम्पत्तृतीया, तथा गुरुप्रव्राजकाध्यापक रत्नाधिकप्रभृतीनामुपधिवनविश्रामणाभ्युत्थानदण्डकोपादानादिशिक्षणात्मिका शिक्षोपसङ्ग्रहसम्पच्चतुर्थी, इत्येवं चतुर्विधां संग्रहपरिज्ञासम्पदं जानीयात्, दर्शिता अष्टापि प्रत्येकं | चतुर्विधा गणिसम्पदः ॥ ५४६ ॥ इदानीं चतुर्विधं विनयमाह - ' आये' त्यादि, आचारविनयः श्रुतविनयो विक्षेपणविनयो दोषपरिघातविनयश्चेति विनयविषये एषा चतुर्धा प्रतिपत्तिर्भवति, तत्र आचारो - त्रतिनां समाचारः स एव विनीयते - अपनीयते कर्मानेनेति विनयः आचारविनयः, स चतुर्धा, यथा-संयमसाम ( चारी तपः समाचारी गणसामाचारी एका किविहारसामाचारी च तत्र संयमं स्वयमाचरति परं च प्राहयति तत्र च सीदन्तं स्थिरीकरोति तत्रोद्यतं चोपबृंहतीति संयमसामाचारी १, पाक्षिकादिषु तपःकर्म स्वयं करोति परं च कारयति भिक्षाचर्यां स्वयमनुतिष्ठति परं च तस्यां नियुङ्क्ते इति तपः सामाचारी २, प्रत्युपेक्षणाबालवृद्धादिवैयावृत्त्यादिकार्येषु स्वयमुद्यतोऽग्लान्या गणं प्रेरयतीति गणसामाचारी ३, एकाकि विहारप्रतिमां स्वयं प्रतिपद्यते परं च ग्राहयतीति एकाकिविहारसामाचारी ४ । श्रुतविनयोऽपि चतुर्धा, सूत्रवाचनां ददाति १ अर्थ व्याख्यानयति २ हितं वाचयति, हितवाचना च तदैव भवति यदा सूत्रमर्थं तदुभयं च पारिणामिकादिगुणोपेतं शिष्यं परिभाव्य यद्यस्य योग्यं तत्तस्यैव ददाति ३, सूत्रमर्थं वा निःशेषं परिसमाप्तिं यावद्वाचयति नानवस्थिततयाऽपान्तरालेऽपि मुध्व
For Private & Personal Use Only
tional
६४ सूरि
गुणाः गा. ५४१-४९
॥ १३० ॥
w.jainelibrary.org