SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Jain Educati असन्दिग्धवचनता ४ चेति पठ्यते, अर्थः प्राग्वदेव ॥ ५४४ ॥ अथ वाचनासम्पञ्चतुर्धा, तद्यथा - 'जोगो' इत्यादि, तत्र परिणामिकत्वादिगुणोपेतान् शिष्यान् विज्ञाय यस्य यद्योग्यं सूत्रं तत्तस्यैवोद्दिशन् समुद्दिशन् वा योग्यवाचनः, अपरिणामिकादावपकघटनिहितजलोदाहरणतो | दोषसम्भवात्, तथा पूर्वप्रदत्तसूत्रालापकान् शिष्यस्य सम्यक् परिणमय्य ततोऽपरापरालापकानां वाचनां पुनः पुनः प्रयच्छन् परिणतवाचनः, | तथा वाचनायाः - व्याख्यानस्य निर्यापयिता- निर्वाहकः, शिष्यसमुत्साहनेन झटित्येव प्रन्थं समर्थयते न पुनरपान्तराले एवमेव मुश्वती| त्यर्थः, तथा निर्वाहणो-निर्वाहकोऽर्थस्येति शेषः, पूर्वापरसाङ्गत्येन स्वयं ज्ञानतोऽन्येषां च कथनतः सम्यगर्थं निर्गमयतीति भावः, प्रन्थान्तरे त्वेवं दृश्यते - विदित्वोद्देशनं १ विदित्वा समुद्देशनं- परिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः २ परिनिर्वाप्य वाचना - पूर्वदत्ताकापकानधिगमय्य शिष्यं पुनः सूत्रदानमित्यर्थः ३ अर्थनिर्यापणा अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थः ४ ॥ अथ मतिसम्पञ्चतुर्धा, तद्यथा - ' उग्गहे 'त्यादि, अवग्रहः ईहा अवायः धारणा च, अवग्रहादीनां च स्वरूपं षोडशोत्तरद्विशततमद्वारे वक्ष्यते || ५४५|| तथा प्रयोगः - अत्र वादादिप्रयोजनसिद्धये व्यापारः तत्काले मतिः- वस्तुपरिच्छित्तिः प्रयोगमतिः, तत्सम्पच्चतुर्धा, तद्यथा - 'सत्तिं' इत्यादि, शक्तिं पुरुषं क्षेत्रं वस्तु च ज्ञात्वा वादं प्रयुञ्जीत, तत्र शक्तेर्ज्ञानं वादादिव्यापारकाले किममुं वावदूकं वादिनं जेतुं मम शक्तिरस्ति न वेत्यात्मीयस्वरूपपर्यालोचनं, पुरुषज्ञानं | किमयं प्रतिवादी पुरुषः सौगतः साङ्ख्यो वैशेषिकोऽन्यो वा तथा प्रतिभादिमानितरो वेत्यादिपरिभावनं, क्षेत्रज्ञानं किमिदं क्षेत्रं मायाबहुलमन्यथा वा तथा साधुभिर्भावितमभावितं वेत्यादिविमर्शनं, वस्तुज्ञानं किमिदं राजामात्यादि सभासदादि वा वस्तु दारुणमदारुणं वा भद्रकमभद्रकं वेत्यादिनिरूपणं । तथा सङ्ग्रहः-स्वीकरणं तत्र परिज्ञानं नाम-अभिधानं सङ्ग्रहपरिज्ञा, तत्सम्पञ्चतुर्धा, तद्यथा - 'गणे 'त्यादि, तत्र गणस्य गच्छस्य बालदुर्बल ग्लानबहुयतिजनादिलक्षणस्य निर्वाहयोग्यक्षेत्रग्रहणं गणयोग्योपसङ्ग्रहसम्पत् प्रथमा १, तथा भद्रकादिपुरुषं प्रति ational For Private & Personal Use Only - www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy