SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥१२९॥ ADSAURAHAOSAROKAR मानित्यादिरूपेणावधारणं सम्प्रग्रहः न तथा असम्प्रग्रहो जात्याद्यनुत्सिक्तत्वमित्यर्थः, अनियतवृत्तिः-प्रामादिष्वनियतविहारस्वरूपता, तथा- |६४ सूरिचञ्चलो-वशीकृतेन्द्रियः, अन्यत्र तु 'वृद्धशीलता' इत्येवं पठ्यते, तत्र वृद्धशीलता-वपुषि मनसि च कामिनीमनोमोहने वयसि वर्त-18|गुणाः गा. मानस्यापि निभृतस्वभावता निर्विकारतेतियावत् , यत:-"मनसि जरसाऽभिभूता जायन्ते यौवनेऽपि विद्वांसः । मूढधियः पुनरितरे ५४१-४९ भवन्ति वृद्धत्वभावेऽपि ॥ १॥" ॥ तथा श्रुतसम्पञ्चतुर्धा, यथा-तत्र 'सूचनात्सूत्र'मिति युगो-युगप्रधानागमः परिचितसूत्रःक्रमोत्क्रमवाचनादिभिः स्थिरसूत्रः उत्सर्गी-उत्सर्गापवादस्वसमयपरसमयादिवेदी उदात्तघोषादि-उदात्तानुदात्तादिस्वरविशुद्धिविधायी, 5 अन्यत्र बहुश्रुतता १ परिचितसूत्रता २ विचित्रसूत्रता ३ घोषविशुद्धिकरणता ४ चेति पठ्यते, अर्थस्तु स एव ॥ ५४३ ॥ शरीरसम्पदं चतुर्विधामाह-'चउ'इत्यादि,तत्र चतुरस्रः-आरोहपरिणाहयुक्तो दैर्घ्य विस्ताराभ्यां लक्षणप्रमाणसहिताभ्यां युक्त इतियावत् तथा अकुण्टादिःसम्पूर्णपाण्यादिः तथा बधिरत्वादिवर्जितः-अविकलसकलेन्द्रियः, तथा दृढसंहननत्वेन बाह्याभ्यन्तरभेदमिन्ने तपसि शक्त:-समर्थः, अन्यत्र तु आरोहपरिणाहयुक्तता १ अनवत्राप्यता २ परिपूर्णेन्द्रियता ३ स्थिरसंहननता ४ चेति पठ्यते, तत्रापि स एवार्थः, केवलमविद्यमानमवत्राप्यं-अवत्रपणं लज्जनं यस्य सोऽयमनवत्राप्यो यद्वा अवत्रापयितुं-लज्जयितुमर्हः शक्यो वा अवत्राप्यो-लजनीयो न तथाऽनवत्राप्योहीनसोङ्गत्वेनालज्जाकर इत्यर्थः वचनसम्पञ्चतुर्धा, तद्यथा-'वाई'त्यादि, वादी मधुरवचनः अनिश्रितवचनः स्फुटवचनश्चेत्येषा 'वचने' वचनविषये सम्पत् , तत्र वदनं-वादः स प्रशस्तोऽतिशायी वा विद्यते यस्य स वादी आदेयवचन इत्यर्थः तथा प्रकृष्टार्थप्रतिपादकमपरुष सुस्वरतागम्भीरतादिगुणोपेतमत एव श्रोतृजनमनःप्रीणकं वचनं यस्य स मधुरवचनः, तथा रागद्वेषादिभिरनिश्रितं-अकलुष वचन यस्य सोऽनिश्रितवचनः, स्फुट-सर्वजनसुबोधं वचनं यस्य स स्फुटवचनः, अन्यत्र तु आदेयवचनता १ मधुरवचनता २ अनिश्रितवचनता ३ ९॥ Jain Education For Private & Personel Use Only Arjainelibrary.org .
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy