________________
सज्झाए सिक्खणं जाणे (३२) ॥ ५४६ ॥ आयारे सुयविणए विक्खिवणे चेव होइ बोधव्वा । दोसस्स परीघाए विणए चउहेस पडिवत्ती (३६)॥५४७॥ सम्मत्तनाणचरणा पत्तेयं अट्टअट्ठभेइल्ला । बारसभेओ य तवो सूरिगुणा हुंति छत्तीसं (२)॥५४८॥ आयाराई अझ उ तह चेव य
दसविहो य ठियकप्पो। बारस तव छावस्सग सूरिगुणा हुंति छत्तीसं (३)॥५४९॥ 'अट्ठविहे'त्यादिगाथानवकं, गुणानां साधूनां वा गणः-समुदायो भूयानतिशयवान् वा यस्यास्ति स गणी-आचार्यस्तस्य सम्पत्-समृ|द्धिर्भावरूपा गणिसम्पत् , सा आचारादिभेदादष्टविधा, केवलमेकैकस्याश्चतुर्भेदत्वेन चतुर्भिर्गुणने द्वात्रिंशद्भेदाः, विनयश्चतुर्भेदस्तत्र प्रक्षिप्यते, तत एते गुरोः-आचार्यस्य षट्त्रिंशद् गुणा भवन्ति ।। ५४१॥ तत्राष्टौ सम्पद इमाः-'आयारे'त्यादि, आचारश्च श्रुतं च शरीरं चेत्येकवद्भावादाचारश्रुतशरीरं, तथा वचनं, प्राकृतत्वादेकारः, वाचना मतिः प्रयोगमतिः, एतेषु विषये सम्पत् , तथाहि-आचारसम्पत् १ |श्रुतसम्पत् २ शरीरसम्पत् ३ वचनसम्पत् ४ वाचनासम्पत् ५ मतिसम्पत् ६ प्रयोगमतिसंपत् ७ अष्टमी च संग्रहपरिज्ञासंपत् ८, तत्र आचरणमाचार:-अनुष्टानं तद्विषया स एव वा सम्पद्-विभूतिस्तस्य वा सम्पत्-सम्पत्तिः प्राप्तिराचारसम्पत् , एवमग्रेऽपि व्युत्पत्त्यर्थो भावनीयः ॥५४२॥ सा चतुर्धा, यथा-चरणयुतो मदरहितोऽनियतवृत्तिरचञ्चलश्चेति, तत्र चरणं-चारित्रं व्रतश्रमणधर्मेत्यादिसप्ततिस्थान
स्वरूपं तेन युतो-युक्तश्चरणयुतः, अन्यत्र तु 'संयमध्रुवयोगयुक्तते' त्येवमिदं पठ्यते, तत्राप्ययमेव परमार्थः, यतः संयमः-चारित्रं तस्मिन् माध्रुवः-नित्यो योगः-समाधिस्तेन युक्तता, तत्र सततोपयुक्ततेत्यर्थः, तथा मदैः-जातिकुलतपःश्रुतायुद्भवै रहितो मदरहितः, ग्रन्थान्तरे तु
'असंपग्गह' इति पठ्यते, तत्रापि स एवार्थः, यतः समन्तात्प्रकर्षण-जातिश्रुततपोरूपादिप्रकृष्टतालक्षणेनात्मनो ग्रहणं-अहमेव जाति
*%%%%%
ARA
Jain Education
a
l
का
For Private Personal Use Only
R
ainelibrary.org