SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Jain Educatio तीति ४ । विक्षिप्यते इति विक्षेपणं तदेव विनयो विक्षेपणविनयः, स चतुर्धा, तत्र मिध्यादृष्टिं मिथ्यामार्गाद्विक्षिप्य सम्यक्त्वमार्ग प्राहयतीत्येकः १, सम्यग्दृष्टिं तु गृहस्थं गृहस्थभावाद्विक्षिप्य प्रब्राजयतीति द्वितीयः २, सम्यक्त्वाञ्चारित्राद्वा च्युतं तद्भावाद्विक्षिप्य पुनस्तत्रैव व्यवस्थापयतीति तृतीयः ३, स्वयं च चारित्रधर्मस्य यथैवाभिवृद्धिस्तथैव प्रवर्तते अनेषणीयपरिभोगादित्यागेन एषणीयपरिभो गादिस्वीकारेण चेति चतुर्थः ४ । दोषाः - क्रोधादयस्तेषां परिघातो - निर्घातना स एव विनयो दोषपरिघातविनयः, स चतुर्धा क्रुद्धस्य | देशनादिभिः क्रोधनिर्घातनमित्येकः १, कषायविषयादिभिर्दुष्टस्य तद्भावविनिवर्तनमिति द्वितीयः २, भक्तपानादिविषयायाः परसमयविषयाया वा काङ्क्षाया निवर्तनमिति तृतीयः ३, स्वयं च क्रोधदोषकाङ्कारहितस्य सुप्रणिहितस्य प्रवर्तनमिति चतुर्थः ४ । तदेवमेते सर्वेऽपि षट्त्रिंशद्गुणा गुरोर्भवन्ति ॥ ५४७ ॥ अथवा इत्थं षट्त्रिंशद्गुणा गुरोर्भवन्ति, तत्राह - ' सम्मत्ते' त्यादि, सम्यक्त्वस्य - दर्शनाचारस्य निःशङ्कितादयः ज्ञानस्य - ज्ञानाचारस्य कालविनयादयः चरणस्य - चारित्राचारस्य ईर्यासमित्यादयः प्रत्येकमष्टावष्टौ भेदा मिलिताश्चतुर्विंशतिः, | तपसश्च बाह्याभ्यन्तरभेदभिन्नस्य प्रत्येकं षड्विधत्वेन अनशनादयो द्वादश भेदाः, सर्वमीलने च षट्त्रिंशद्भवन्ति ॥ ५४८ ॥ अथ भयन्तरेणापि गुरोः षत्रिंशद्गुणानाह - ' आयाराई' त्यादि, आचाराः श्रुतादयः प्राग्व्यावर्णितस्वरूपा अविवक्षितस्वस्वभेदा अष्टौ गणिस म्पदः, तथा "आचेलक्कु १ देसिय २ सिज्जायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जेट्ठ ७ पडिक्कमणे ८ मासं ९ पज्जोसवणकप्पो १० ॥ १ ॥ इत्येवं वक्ष्यमाणस्वरूपो दशविधः स्थितकल्पः, तथा द्वादशविधं तपः प्रागुक्तस्वरूपं, तथा पडावश्यकानि - सामायिकचतुर्विंशतिस्तववन्दनकप्रतिक्रमणकायोत्सर्गप्रत्याख्यानलक्षणानि, एतानि सर्वाण्यपि मिलितानि षट्त्रिंशत्सूरिगुणा भवन्ति । इह चैवमन्या अपि षट्त्रंशिका: सम्भवन्ति, तास्तु विस्तरभयान्नाभिधीयन्ते, केवलं किञ्चित्सोपयोगत्वात् सुप्रतीतत्वाच्च - 'देसकुलजाइरूवे संघयणी tional For Private & Personal Use Only -% 11 ww.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy