________________
Jain Education
| परिज्ञानं, उत्कर्षतस्तु असम्पूर्णानि दश पूर्वाणि, प्रथमसंहननो वज्रकुड्यसमानावष्टम्भश्चायं भवति, लोचं चासौ नित्यमेव विधत्ते, आव| श्यकीनैषेधि की मिध्यादुष्कृतगृहि विषयपृच्छोपसंपल्लक्षणाः पञ्च सामाचार्योऽस्य भवन्ति, अन्ये त्वाहुः - आवश्यकी नैषेधिकीगृहस्थोपसम्पल्लक्षणास्तिस्र एव, आरामादिनिवासिन ओघतः पृच्छादीनामपि असम्भवादित्याद्यन्याऽपि जिनकल्पिकानां सामाचारी कल्पग्रन्थादेवगन्तव्या ॥ तथा जिनकल्पिक स्थितिप्रतिपादनार्थं सोपयोगत्वात् कानिचिद् द्वाराणि दर्श्यन्ते, तद्यथा— क्षेत्रद्वारं १ कालद्वारं २ चारित्रद्वारं ३ तीर्थद्वारं ४ पर्यायद्वारं ५ आगमद्वारं ६ वेदद्वारं ७ कल्पद्वारं ८ लिङ्गद्वारं ९ ध्यानद्वारं १० गणनाद्वारं ११ अभिप्र हद्वारं १२ प्रवाजनाद्वारं १३ निष्प्रतिकर्मताद्वारं १४ भिक्षाद्वारं १५ पथद्वारं १६ चेति, तत्र तीर्थपर्यायागमवेदध्यानाभिग्रहप्रव्रज्यानि - ष्प्रतिकर्मताभिक्षापथद्वाराण्ये कोनसप्ततितमे परिहारविशुद्धिद्वारे यथा वक्ष्यन्ते तथैवात्रापि ज्ञेयानि, क्षेत्रद्वारे जन्मना सद्भावेन च पञ्चदशस्वपि कर्मभूमिषु संहरणेन त्वकर्मभूमिष्वपि भवति, कालद्वारे अवसर्पिण्यां जन्मना तृतीयचतुर्थारकयोरेव व्रतस्थस्तु पञ्चमारकेऽपि, उत्सर्पिण्यां तु व्रतस्थस्तृतीयचतुर्थारकयोरेव, जन्मना तु द्वितीयारकेऽपि प्रतिभागकाले तु दुष्षमसुषमारूपे जन्मतः सद्भावतश्च प्राप्यते, | विदेहेष्वपि जिनकल्पिकानां सद्भावात् संहरणेन पुनः सर्वस्मिन्नपि काले प्राप्यते, चारित्रद्वारे प्रतिपद्यमानकः सामायिकच्छेदोपस्था| पनीययोरेव, मध्यमविदेहतीर्थकृतां सामायिके प्रथमपश्चिमजिनयोस्तु छेदोपस्थापनीये, पूर्वप्रतिपन्नस्तु सूक्ष्मसम्पराययथाख्यातचारित्रयोरपि, स चोपशमश्रेण्यामेव, न तु क्षपकश्रेण्यां 'तज्जम्मे केवल पडिसेहभावाओ' [ तज्जन्मनि केवलप्रतिषेधभावात् ] इतिवचनात् कल्पद्वारे स्थितकल्पेऽस्थितकल्पे च भवति, लिङ्गद्वारे प्रतिपद्यमानको द्विविधेऽपि द्रव्यभावरूपे लिङ्ग भवति, पूर्वप्रतिपन्नस्तु भावलिङ्गेऽवश्यमेव, द्रव्यलिङ्गे तु भाज्यो हृतजीर्णतादिभिः कदाचिद् द्रव्यलिङ्गस्याभावात्, गणनाद्वारे प्रतिपद्यमानका जघन्यत एकादय उत्कर्षतः
tional
For Private & Personal Use Only
www.jainelibrary.org