SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Jain Educatio उपरि परिभोगाय चतस्रः सङ्घाट्यो भवन्ति, एका द्विहस्ता पृथुत्वेन ।। ५३७ ॥ द्वे त्रिहस्ते, एका च चतुर्हस्ता दैर्येण तु चतस्रोऽपि सार्धहस्तत्रयप्रमाणाश्चतुर्हस्ता वा द्रष्टव्याः, तत्र 'द्विहस्ता' द्विहस्तविस्तृता उपाश्रये भवति, न तां विहाय प्रकटदेहया कदाचिदासितव्यमिति भाव:, ये च द्वे 'त्रिहस्तायामे' त्रिहस्तविस्तृते भवतस्तयोर्मध्ये एका मिक्षार्थं एका उच्चारे भवति, भेदग्रहणं गोचर्याद्युपलब्धतुल्यवेपादिपरिहारार्थं, तथा अवसरणे - समवसरणे व्याख्याने नात्रादौ 'चतुर्हस्ता' चतुर्हस्तविस्तृता सङ्घाटिर्भवति, सा च अनिषण्णप्रच्छादनायोपयुज्यते, यतो न तत्र संयतीभिरुपवेष्टव्यं किन्तु ऊर्ध्वाभिरेव स्थातव्यं, ततस्तया स्कन्धादारभ्य पादौ यावद् प्रतिन्यो वपुः प्रच्छादयन्तीति, एताञ्च पूर्वप्रावृतवेषप्रच्छादनार्थं श्लाघादीत्यर्थं च मसृणाः क्रियन्ते, चतस्रोऽपि च गणनाप्रमाणेन एकमेव रूपं, युगपत्परिभोगाभावात् ॥ ५३८ ॥ 'खंधे' त्यादि स्कन्धकरणी 'चतुर्हस्तविस्तृता' चतुर्हस्तदीर्घाच समचतुरस्रा प्रावरणस्य वातविधुतरक्षणार्थं चतुष्पुटीकृत्य स्कन्धे ध्रियते, सैव च स्कन्धकरणी रूपवत्याः संयत्याः कुडुभनिमित्तं कुब्जकरण्यपि क्रियते, पृष्ठप्रदेशे स्कन्धादधः संवृततया मसृणवस्त्रपट्टकेन उपकक्षिकावैकक्षिका निबद्धया तया विरूपतापादनाय कुडुभं विधीयते इति भावः ॥ ५३९ ॥ ६२ ॥ सम्प्रति 'जिणकप्पियाण संखा उक्किट्ठा एगवसहीए 'त्ति त्रिषष्टं द्वारमाह किपिया य साहू उक्कोसेणं तु एगवसहीए । सत्त य हवंति कहमवि अहिया कइयावि नो हुति ॥ ५४० ॥ इह च विनेयजनानुग्रहार्थं किञ्चिदप्रतीतार्थत्वादुत्तरत्र यथालन्दकल्पादौ सप्रयोजनत्वाच्च प्रथमं जिनकल्पिकस्वरूपमेव निरूप्यतेतत्र जिनकल्पं प्रतिपित्सुना प्रथममेव पूर्वापररात्रकाले तावदिदं चिन्तनीयं - विशुद्धचारित्रानुष्ठानेन कृतं मयाऽऽत्महितं शिष्यादिनिष्पादनतः tional For Private & Personal Use Only *%% % %% औ www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy