SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ब्धिमत्साध्वादेर्भिक्षादानादयः सम्भोगे-एकमण्डलीरूपे व्यावर्णिताः सिद्धान्ते त एव गुणाः पात्रग्रहणेऽपि भवन्ति, पात्रग्रहणमन्तरेण कथमे-13 तनिमित्तं भिक्षा समानीयत इति भावः ॥५१७॥ इदानीं कल्पानां प्रयोजनमाह-तणे'त्यादि, तृणानां-व्रीहिपलालादीनां प्रहणं तृणग्रहणं | अनल:-अग्निस्तस्य सेवा तयोर्निवारणार्थ कल्पग्रहणं, असति कल्पे शीतादौ सति गाढे पलालाग्निसेवामवश्यं करोति तत्करणे च जीववधः, तथा धर्मशुक्लध्याननिमित्तं दृष्ट-अनुज्ञातं कल्पग्रहणं तीर्थकृद्भिः, शीताद्युपद्रवे हि कल्पप्रावृत्तः सुखेन धर्मशुक्लध्याने अध्यामे करोतीति, |अन्यथा शीतादौ कम्पमानकायो दन्तवीणामनवरतं वादयन् कथङ्कारं ते ध्याने विधास्यतीति?, तथा ग्लानसंरक्षणार्थ दृष्टं कल्पग्रहणं, अन्यथा शीतवातादिना बाध्यमानो ग्लानो गाढतरं ग्लानो भवति, तथा मरणार्थ कल्पग्रहणं, मृतस्य ह्युपरि प्रच्छादनार्थ कल्पः क्रियते, इतरथा लोकव्यवहारादिबाधा कृता भवति ।। ५१८ ॥ इदानी चोलपट्टस्य प्रयोजनमाह-वेउव्वेत्यादि, यस्य साधोः प्रजननं-साधनं वैक्रिय-विकृतं भवति यथा दाक्षिणात्यपुरुषाणामग्रभागे विध्यते प्रजननं तच्च तथाविधं दृष्टं विकृतं भवति ततस्तत्प्रच्छादनार्थ चोलपट्टकोऽनुजज्ञे, 'अवाउडे'त्ति पदं सर्वत्र सम्बध्यते ततोऽप्रावृते-अपरिहिते चोलपट्टके एते दोषा भवन्ति, यथा-कश्चित्साधुरप्रावृतसाधनो |भवति अग्रभागे चर्मणा अनाच्छादितलिङ्गो दुश्चर्मा इत्यर्थः, ततस्तदनुग्रहार्थ चोलपट्टोऽनुज्ञातः, तथा कश्चित् साधुर्वातिको भवतिवातेन च तदीयसाधनमुच्छूनं भवति ततस्तदनुग्रहाय चोलपट्टोऽनुमतः, तथा प्रकृत्यैव कश्चित् ह्रीमान्-लज्जालुर्भवति ततस्तत्प्रावरणाय चोलपट्टः तथा स्वभावेनैव कश्चित् 'खद्धपजणण'त्ति बृहत्साधनो भवति लोकश्च तथाविधं तं दृष्ट्वा हसति ततस्तथाविधानुग्रहाय चोलपट्टः, | तथा लिङ्गोदयार्थ चोलपट्टः कदाचिन्मनोहररूपामनुपमयौवनां वनितां विलोक्य लिङ्गस्योदयो भवति अथवा तदीयं लिङ्गं मनोरमं | Jain Education For Private & Personel Use Only TMainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy