________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ १२२ ॥
Jain Educatio
विभास'त्ति लक्षणे स्थूले च चोलपट्टे 'विभाषा' विविधा भाषा, अर्थ भेदो-यदुत स्थविराणां लक्ष्णः करणीयस्तदिन्द्रियस्पर्शेन चोलपट्टस्योपघाताभावात, यूनां तु स्थूल इति ॥ ५९३ ॥ इदानीं पूर्वमनुद्दिष्टयोरप्युपकरणप्रस्तावादौपग्रहिकोपधिरूपयोः संस्तारकोत्तरपट्टरूपयोर्मानमाह-'संथे 'त्यादि, संस्तारक उत्तरपट्टश्चेति द्वयमपि प्रत्येकमर्धतृतीय हस्तौ आयतं भवति, द्वयोरपि संस्तारकोत्तरपट्टयोर्विस्तारः - पृथुत्वमेको हस्तश्चतुरङ्गुलं- चत्वार्यङ्गुलानि, प्रयोजनं च संस्तारकस्य प्राणिरेणुसंरक्षणं, तदभावे हि शुद्धभूमौ शयानस्य साधोः पृथिव्यादीनां प्राणिनामुपमर्दो भवति रेणुश्च शरीरे लगति, तथा उत्तरपट्टोऽपि क्षौमिकः षट्पदिकासंरक्षणार्थं संस्तारकस्योपरि आस्तीर्यते, अन्यथा कम्बलमयसंस्तारकशरीरयोः संघर्षेण षट्पदिकाविराधना स्यादिति ॥ ५१४ ॥ अथ सूत्रकृदेव केषाञ्चिदुपकरणानां प्रयोजनं प्रतिपिपादविपुः पूर्वं तावद्रजोहरणस्य प्रयोजनमाह - ' आये'त्यादि, आदाने - ग्रहणे निक्षेपे - मोचने स्थाने - ऊर्ध्वस्थाने निषदने - उपवेशने त्वग्वर्तने- शयने सङ्कोचने च पादादीनां पश्चात्करणे सम्पातिमादिसूक्ष्मजीवसंरक्षणाय पूर्व-आदौ भूम्यादेः प्रमार्जनार्थं रजोहरणं तीर्थकरैः कथितं पूर्वमप्रमार्जिते हि पात्रादौ तदादाने क्रियमाणेऽवश्यं मशक कुंध्वादीनामुपघातो भवति, रजोहरणेन तु प्रमार्जने कृते तेषां रक्षा कृता भवति, तथाऽर्हद्दीक्षायां लिङ्गं-चिह्नमेतत् प्रथममिति ॥ ५१५ ।। अथ मुखवस्त्रिकायाः प्रयोजनमाह - 'संपे 'त्यादि, सम्पातिमा जीवा मक्षिकामशका| दयस्तेषां रक्षणार्थं भाषमाणैर्मुखे मुखवस्त्रिका दीयते, तथा रजः - सचित्तः पृथिवीकायस्तत्प्रमार्जनार्थं रेणुप्रमार्जनार्थं च मुखपोत्तिकां वदन्तिप्रतिपादयन्ति तीर्थकरादयः, तथा वसतिं प्रमार्जयन् साधुर्नासां मुखं च बध्नाति - आच्छादयति 'तया' मुखपोतिकया यथा मुखादौ रेणुर्न | प्रविशतीति ॥ ५१६ ॥ इदानीं पात्रग्रहणस्य प्रयोजनमाह - 'छक्काये' त्यादि, पट्कायरक्षणार्थं पात्रग्रहणं जिनैः प्रज्ञप्तं, पात्रकरहितो हि साधुर्भोजनार्थी षडपि जीवनिकायान् परिशाटनादिदोषेण विनाशयतीति, ये च गुणाः - गुरुग्लान वृद्ध बालभिक्षा भ्रमणासहिष्णुराजपुत्रप्राघूर्णकाल
For Private & Personal Use Only
ional
६१ स्थवि - रकल्पि - कोपकरणानि गा
५००-१९
॥ १२२ ॥
w.jainelibrary.org