SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ लापसई दो पसईओ य सेइया होइ । चउसेइयाहिं कुलओ चउकुलओ मागहो पत्थो ॥ १ ॥ [ द्वे असती प्रमृतिः द्वे प्रसृती सेतिका भवति चतसृभिः सेतिकाभिः कुलवः चतुष्कुलवो मागधः प्रस्थः ॥१॥] इति क्रमनिष्पन्नः तन्मानात्सविशेषतरं-अधिकतरं मात्रकप्रमाणंद भवति, तेन च किं प्रयोजनमित्याह-द्वयोरपि-वर्षावर्षयोः-वर्षाकालऋतुबद्धकालयोर्गुर्वादिप्रायोग्यद्रव्यग्रहणं क्रियते, अयमधिकार: इदं मात्रकस्य प्रयोजनं, एतदुक्तं भवति-यदि तत्र क्षेत्रे गुरुग्लानप्राघूर्णाकादिप्रायोग्यद्रव्यस्यावश्यंभावी लाभः तदा वैयावृत्त्यकरसङ्घाMilटक एव मात्रके तत्प्रायोग्यं द्रव्यं गृह्णाति, असति च प्रायोग्यद्रव्यस्य ध्रुवलाभे सर्व एव सङ्घाटका मात्रकेषु गुर्वादिप्रायोग्यं द्रव्यं गृह्णन्ति, यतो न ज्ञायते कः किं लप्स्यते आहोश्चिन्नेति, तथा यत्र यत्र क्षेत्रे काले वा स्वभावेनैव भक्तपानं संसज्यते तत्र प्रथमं मात्रके तद् गृह्यते, ततः शोधयित्वा भक्तपानमितरेषु पतद्ग्रहेषु प्रक्षिप्यते, तथा दुर्लभघृतादिद्रव्यग्रहणं सहसादानग्रहणं च तेन क्रियते, इत्यादि मात्रकस्य प्रयोजनमिति ॥५११॥ अपरं च मात्रकस्य प्रमाणमाह-'सूओ'इत्यादि, अत्र प्राकृतत्वेन विभक्तिव्यत्ययात्सूपोदनेन-दालीकूरेण भृतं यदेकं | स्थानं-भाजनरूपं द्विगव्यूतादध्वन आगतः साधु ते तदेतत्किल मात्रकस्य द्वितीयं प्रमाणं, मूलनगरादुपनगरगोकुलादिषु द्विगव्यूतस्थितेषु। | भिक्षामटित्वा समागत्य वसती मात्रके सर्व प्रक्षिप्य तदानीमेतावता श्रमेण एकस्थानस्थितस्तत्सूपादिकं भुङ्क्ते यदि च यावन्मानं सूपादिकं |साधु क्तुं शक्नोति तावन्मात्रमेव तत्र मात्रके माति न न्यूनमधिकं वा तदा तत्प्रमाणं मात्रकस्येति तात्पर्य ॥ ५१२ ॥ इदानी चोलपट्टमा-1 नमाह-'दिगुणो'इत्यादि, द्विगुणश्चतुर्गुणो वा कृतः सन् यथा हस्तप्रमाणश्चतुरस्रश्च भवति तथा चोलस्य-पुरुषचिह्नस्य पट्टः-प्रावरणवस्त्रं चोलपट्टः कार्यः, किमर्थं द्विगुणश्चतुर्गुणो वेत्याह-'थेरजुवाणाणढ'त्ति क्रमेण स्थविराणां यूनां च साधूनामर्थाय-प्रयोजनाय, स्थविराणां द्विहस्तः, तदिन्द्रियस्य प्रबलसामर्थ्याभावादल्पेनाप्यावरणात् , यूनां च चतुर्हस्तश्चोलपट्टकः करणीय इति भावः, 'सण्हे थुलंमि य द्विगुणश्चतुर्गुणो वा कृतः सन् यथा मण स्थविराणां यूनां च साधूनामबाडे लंमि य । Jain Education Pamelional For Private & Personel Use Only Mr.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy