________________
परिणतेस्तेन पटलभेदसम्भवात् , मध्यमानि पञ्च, जघन्यानि तु षडेव । तथा वर्षासूत्कृष्टानि पञ्च, कालस्यात्यन्तस्निग्धत्वादतिचिरेण पृथ्वी-||३| रजःप्रभृतीनां परिणतेस्तेन पटलभेदयोगात् , मध्यमानि षड् , जघन्यानि तु सप्तैव पटलानि भवन्तीति, तानि च पटलानि तथा घनमसणरूपाणि कर्तव्यानि यथा तैस्तिरोहितः सविताऽपि न दृश्यते, प्राकृतत्वाञ्च पुंस्त्वमिति॥२०६॥ इदानीं रजत्राणप्रमाणमाह-'माण'मित्यादि, 'मानं तु' प्रमाणं 'रजस्त्राणे' रजत्राणविषयं भाजनप्रमाणेन-पात्रकप्रमाणेन भवति निष्पन्नं, तञ्चैवं वेदितव्यमित्याह-प्रादक्षिण्यं वेष्ठनं कुर्वन पात्रस्य मध्ये चतुरङ्गुलमिति-चत्वार्यङ्गुलानि यावत्क्रमति-अधिकं तिष्ठति, एतदुक्तं भवति-पात्रकानुरूपं रजत्राणं कर्तव्यं, किंबहुना ?, तिर्यक् प्रदक्षिणाक्रमेण भाजने वेष्ट्यमाने भाजनस्य मध्यभागो यथा चतुर्भिरङ्गुलै रजत्राणेनातिक्रम्यते तथा रजत्राणं विधेयं-कार्य, प्रयोजनं चास्य मूषकभक्षणरेणूत्करवर्षोदकावश्यायसचित्तपृथिवीकायादिसंरक्षणं, उक्तं च-"मूसगरयउकेरे वासासिण्हारए य रक्खट्टा । होति गुणा रयत्ताणे एवं भणियं जिणिदेहिं ॥१॥" [मूषकरजउत्केरः वर्षा अवश्याये रजसि च रक्षार्थ । भवन्ति गुणा रजत्राणे एवं भणितं जिनेन्द्रः॥१॥] ॥५०७॥ इदानीं कल्पप्रमाणमाह-कप्पे'त्यादि, कल्पा आत्मप्रमाणाः-सार्धहस्तत्रयप्रमाणा दैर्ध्यतः सार्धहस्तद्वयप्रमाणाश्च विस्तरतो विधेयाः, तेषां च मध्ये द्वौ 'सौत्रिको' सूत्रनिष्पन्नौ प्रच्छादनपटीरूपौ तृतीयः पुनरौर्णिकः-ऊर्णानिष्पन्नः कम्बल इत्यर्थः ॥५०८॥ इदानीं रजोहरणमानमाह-'बत्ती'त्यादि,द्वात्रिंशदङ्गुलानि दीर्घ तावद्रजोहरणं सामान्येन कार्य, तत्र च चतुर्विशतिरकुलानि दण्डः 'से' तस्य करणीयः, अष्टाङ्गुलाश्च दसिकाः कार्याः, अथवा एकतरत् हीनमधिकं वा कार्य, कोऽर्थः ?-दण्डो वा हीनो दसिका अधिकमानाः दण्डोऽधि. कप्रमाणो दसिका हीनप्रमाणाः, सर्वथा समुदायतस्तद् द्वात्रिंशदङ्गुलं कर्तव्यमिति । यच्चाधुनातनाः साधुमान्द्याः केचिदेवमाचक्षते-रजोहरणं
। इतः प्रारभ्य बहुतरदोषसंभव इतीति पर्यन्तः पाठः केनापि कारणेन नष्टो मुद्रिते एतदीयादशैं ।
अ.सा.२१
Join Education Intemat
For Private 3 Personal Use Only
www.jainelibrary.org