SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १२० ॥ Jain Educatio जणहेडं गुच्छओ भाणवत्थाणं ॥ १ ॥ पायपमज्जणहेडं केसरिया इत्थ होइ णायव्वा ॥” [ रजआदिरक्षणार्थं पात्रबन्धश्च पात्रस्थापनं च । भवति प्रमार्जनहेतोर्गोच्छको भाजनवस्त्राणां ॥ १ ॥ पात्रप्रमार्जनहेतोः पात्रकेसरिका भवति ज्ञातव्या ॥ ] ॥ ५०३ ॥ अथ पटलानां प्रमाणमाह- 'अड्डे' त्यादि, अर्धतृतीयान् हस्तान् - साधौ द्वौ हस्तौ दीर्घाणि - आयतानि षटूत्रिंशदङ्गुलानि एको हस्तो द्वादशाङ्गुलानि चेत्यर्थो | रुद्राणि - विस्तीर्णानि पटलकानि भवन्ति, अथवा द्वितीयमिदं प्रमाण-पतद्ग्रहात् स्वशरीराच्च निष्पन्नं, कोऽर्थः ? - महति पात्रके स्थूले शरीरे लघुतरे पात्रके कृशे शरीरे वा पटलकान्यपि तदनुसारेण करणीयानि ॥ ५०४ ॥ तानि च कीदृशानि भवन्तीत्याह - ' कयली' त्यादि, कदली| गर्भदलसमानि शुक्लानि मसृणलक्ष्णानि घनानि चेत्यर्थः क्षौमाणि पटलान्युत्कृष्टमध्यमजघन्यभेदभिन्नानि भवन्ति, उत्कृष्टत्वमध्य मत्वजघन्य| त्वानि तु शोभनत्वादिस्वरूपापेक्षया परिगृह्यन्ते, न तु सङ्ख्यापेक्षया, तानि च 'ग्रीष्मे' उष्णकाले 'हेमन्ते' शीतकाले 'वर्षासु च' वर्षाकाले प्रत्येकं २ त्रिविधानि ज्ञेयानि तानि च किमर्थं क्रियन्ते ?, तत्राह - 'प्राणरक्षार्थी' सम्पातिमादिजीवरक्षणनिमित्तं, उपलक्षणत्वात्पक्षिपुरी| षपांशुपातादिरक्षणार्थं लिङ्गसंवरणार्थश्व, एतदुक्तं भवति - अस्थगित पात्र के सम्पातिमाः सवाः पतन्ति पवनप्रकम्पितपादपादेः पत्रपुष्प| फलादीनि सचित्तरजःसलिलादयो व्योमवर्तिविहङ्गमपुरीषवा त्याह तपांशु प्रकरादयश्च निपतन्ति ततस्तत्संरक्षणार्थ पटलानि धियन्ते, तथा भिक्षां भ्रमतः साधोः कदाचिद्वेदोदयोऽपि सम्भवति ततस्तैर्विकृतलिङ्गस्थगनं क्रियते ॥ ५०५ ॥ अथैतेषामेवोत्कृष्टमध्यमजघन्यानां ग्रीष्मादिषु सङ्ख्यामाह - 'तिण्णी 'त्यादि, ग्रीष्मे उत्कृष्टानि - अत्यन्तशोभनानि त्रीणि पटलानि भवन्ति, कालस्यात्यन्तरूक्षत्वात् सत्वरं सचित्तपृथ्वीरजःप्रभृतीनां परिणतेस्तेन पटलभेदायोगात्, मध्यमानि-न शोभनानि नाप्यशोभनानि चत्वारि तेषां प्रभूततराणामेव स्वकार्यसाधनात्, जघन्यानि - जीर्णप्रायाणि अत्यन्तमशोभनानि पश्चैव । तथा हेमन्ते उत्कृष्टानि चत्वारि, कालस्य स्निग्धत्वाद्विमर्देन पृथ्वीरजःप्रभृतीनां For Private & Personal Use Only ६१ स्थवि - रकल्पि - कोपकरणानि गा. ५००-१९ ॥ १२० ॥ w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy