SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Jain Educatio मरणा चैव ॥ ५९८ ॥ वेउव्वऽवाउडे वाइए य ही खद्धपजणणे चेव । तेसिं अणुग्गहट्ठा लिंगुदयहा य पट्टो य ॥ ५१९ ॥ 'एए' इत्यादि गाथा विंशतिः, एत एव - अनन्तरोदिता जिनकल्पिकसम्बन्धिनः पात्रकाद्या मुखवस्त्रिकापर्यन्ता द्वादश उपधिभेदाः, अतिरिक्तं च मात्रकं चोलपट्टकच, एष चतुर्दशविध उपधिः पुनः 'स्थविरकल्पे' स्थविरकल्पविषये भवति गणनाप्रमाणेनेति ॥ ५०० ॥ | इदानीं पात्रकस्य प्रमाणमाह - 'तिनी' त्यादि, तिस्रो वितस्तयश्चतुरङ्गुलं च चतुर्णामङ्गलानां समाहारश्चतुरङ्गुलं चत्वार्यङ्गुलानि चेत्यर्थः, इदं भाजनस्य मध्यमं प्रमाणं, अयमर्थः - वर्तुलस्य सर्वतः समचतुरस्रस्य सुप्रतिष्ठानस्य निश्छिद्रस्य निर्व्रणस्य स्निग्धवर्णोपेतस्य पात्रस्य परिधिर्दवरकेण मीयते, तत्र च मिते यदा मानदवरकस्तिस्रो वितस्तयश्चत्वारि चाङ्गुलानि भवन्ति तदा तत्पात्रं मध्यमप्रमाणं भवति, 'इतो' मध्यमप्रमाणात् पात्रकात् हीनं द्विवितस्त्येकवितस्त्यादिमानं यत्पात्रं तज्जघन्यं, 'अतिरिक्ततरं तु' मध्यमप्रमाणात्तद्बहत्तरमुत्कृष्टं भवति ॥ ५०१ ॥ पात्रबन्धप्रमाणमाह - 'पत्ते' त्यादि, पात्रबन्धप्रमाणं भाजनप्रमाणेन भवति करणीयं, यदि मध्यमं पात्रं भवति तदा पात्रबन्धकोऽपि ( प्रन्थानं ५००० ) तत्प्रमाणः कार्यः, अथ जघन्यं तदा सोऽपि तदनुसारेण करणीयः, अथोत्कृष्टप्रमाणं पात्रं तदा सोऽपि गुरुतरः कार्यः, किं बहुना ?, यथा प्रन्थौ 'कृते' दत्ते सति 'कोणाः' मन्थेरभ्वलाश्चतुरङ्गुला भवन्ति तथा पात्रबन्धकः कार्य इति ॥ ५०२ ॥ अथ पात्रस्थापनकगोच्छकपात्रप्रत्युपेक्षणिकानां प्रमाणमाह- 'पत्तगे 'त्यादि, अथ पात्रकस्थापनं तथा गोच्छकस्तथा पात्रप्रतिलेखनी च एतेषां त्रयाणामपि प्रमाणमेका वितस्तिश्चतुर्भिरङ्गुलैरधिका षोडशाङ्गुलानीत्यर्थः, प्रयोजनं तु पात्रबन्धपात्रस्थापनयो रजःप्रभृतिरक्षणं गोच्छकस्य भाजनवस्त्राणां पटलादीनां प्रमार्जनं केशरिकायास्तु पात्रप्रमार्जन मिति, उक्तं च - " रयमाइरक्खणट्ठा पत्ताबंधो य पायठवणं च । होइ पम tional For Private & Personal Use Only ww.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy