________________
Jain Educ
एए अट्ठ विगप्पा जिणकप्पे हुंति उवहिस्स ॥ ४९५ ।। पुत्तीरयहरणेहिं दुविहो तिविहो य एककप्पजुओ । चहा कप्पदुएणं कप्पतिगेणं तु पंचविहो ॥ ४९६ ॥ दुविहो तिविहो चउहा पंचवोsबिहु सपायनिज्जोगो । जायइ नवहा दसहा एक्कारसहा दुवालसहा ॥ ४९७ ॥ अहवा दुगं च नवगं वगरणे हुंति दुन्नि उ विगप्पा । पाउरणवज्जियाणं विसुद्ध जिणकप्पियाणं तु ॥ ४९८ ॥ तवेण सुत्तेण सत्तेण, एगत्तेण बलेण य । तुलणा पंचहा वुत्ता, जिणकप्पं पडिवजओ ॥ ४९९ ॥ 'पत्त' मित्यादिगाथाऽष्टकं, उपक्रियते व्रती अनेनेत्युपकरणं - उपधिरित्यर्थः, स चोपधिर्द्विधा - औधिक औपग्रहिकश्च, ओघ :- प्रवाहः सामान्यमितियावत् तत्र भव औधिको नित्यमेव यो गृह्यते इत्यर्थः, उपः - आत्मनः समीपे संयमोपष्टम्भार्थं वस्तुनो ग्रहणमुपग्रहः स प्रयोजनमस्येत्यौ पहिकः, कारणे आपने संयमयात्रार्थं यो गृह्यते न पुनर्नित्यमेव स औपग्रहिक इत्यर्थः, तत्र औधिक उपधिर्द्विविधोगणनाप्रमाणेन प्रमाणप्रमाणेन च तत्र गणनाप्रमाणमेकद्वित्र्यादिरूपं प्रमाणप्रमाणं तु दीर्घपृथुत्वादिरूपं, एवमौपग्रहिकोपधेरपि भेदद्वयं भणनीयं तत्र औधिकोपधिर्गणनाप्रमाणतो जिनकल्पिकानामिह प्रतिपाद्यते, तत्र पात्रं - पतग्रहः १ पात्रबन्धो येन पात्रं धार्यते वस्त्रखण्डेन चतुरस्रेण २ पात्रकस्थापनं कम्बलमयं यत्र पात्रकाणि स्थाप्यन्ते ३ पात्रकेसरिका - पात्रप्रत्युपेक्षणिका या चिलिमिलिकेति प्रसिद्धा ४ पटलानि यानि भिक्षां भ्रमद्भिः पात्रोपरि दीयन्ते ५ रजस्त्राणानि - पात्र वेष्टनकानि ६ प्राकृतत्वाच्च सूत्रे एकवचननिर्देशः गोच्छक:कबलखण्डमयो यः पात्रकोपरि दीयते ७ अयं सप्तविधः पात्रनिर्योगः, पात्र परिकर इत्यर्थः ॥ ४९२ ॥ तथा त्रय एव प्रच्छादकाः - प्रावरणरूपाः कल्पा इत्यर्थः द्वौ सूत्रमयावेक ऊर्णामयो ३ रजोहरणं ४ चैव भवति मुखपोतिका ५, एष उत्कर्षतो द्वादशविध उपधिर्जिनकल्पिकानां
ernational
For Private & Personal Use Only
www.jainelibrary.org