________________
प्रव० सा- भवति ॥४९३॥ ननु जिनकल्पिका एकस्वरूपा एव भवन्त्याहोश्चित्पृथक्वरूपा अपीत्याह-'जिणे त्यादि,जिनानां कल्प:-आचारो जिनकल्पः स | ६१ जिन
रोद्धारे विद्यते येषां ते 'अत इनिठना'विति (पा०५-२-११५) ठनि जिनकल्पिकाः, अपिः पुनरर्थो, जिनकल्पिकाः पुनर्द्विविधा-द्विभेदाः, तावेव | कल्पिकोतत्त्वज्ञा- भेदावाह-पाणी एव पात्रं येषां ते पाणिपात्रा:-पाणिपात्रभोजिन एके, पतद्धराः-पतगृहभोजिनो द्वितीयाः, ते पुनरेकैके द्विभेदापकरणानि नवि०
भवेयुः-सप्रावरणा अप्रावरणाश्च, अत्र च सूत्रे प्राकृतत्वात्सलोपो द्रष्टव्यः ॥४९४॥ ननु जिनकल्पिकानां द्वादशविध उपधिरभिदधे स किं गा.४९२
सर्वेषामेकविध एव भवति ?, नेत्याह-'दुगे'त्यादि,द्विकं त्रिकं चतुष्कं पञ्चकं नवकं दशकं एकादशकं द्वादशकमित्येतेऽष्टौ विकल्पा जिनकल्पे ४९९ ॥११८॥
भवन्त्युपधेरिति ॥ ४९५ ॥ तानेव व्याचष्टे-'पुत्ती'त्यादिगाथाद्वयं, मुखपोतिकारजोहरणाभ्यां द्विविधः, कोऽर्थः ?-मुखपोतिकारजोहरणलक्षणमुपकरणद्वयमेव पाणिपात्राः प्रावरणवर्जिता जिनकल्पिका धारयन्ति, तथा तेषामेव सप्रावरणानामेकेन कल्पेन युक्तः सन् पूर्वोक्त उपधिस्त्रिविधो भवति, तथा स एव मुखवस्त्रिकारजोहरणरूप उपधिः कल्पद्वयेन सहितश्चतुर्विधः कल्पत्रयेण संयुक्तः पुनः पञ्चविधो भवति, तथा पूर्वोक्त एव द्विविधस्त्रिविधश्चतुर्विधः पञ्चविधश्च उपधिः सप्तविधपात्रनिर्योगसहितः सन् यथाक्रमं नवविधो दशविध एकादशविधो
द्वादशविधश्चजायते, तत्र रजोहरणमुखपोतिकासप्तविधपात्रनिर्योगसहितो नवविध उपधिः पात्रभोजिनामप्रावरणानां ज्ञेयः, शेषस्तु दशविध Pएकादशविधो द्वादशविधश्च सप्रावरणानां पात्रभोजिनामिति ॥ ४९६-४९७ ॥ अथ सूत्रकृदेवाप्रावरणानामुपकरणसङ्ख्यामाह-'अहवे'-II
त्यादि, पूर्व सामान्यतो जिनकल्पिकोपधेरष्टौ भेदाः प्रतिपादिताः, अथवा द्विकं नवकं चेति द्वावेव भेदौ, तत्र द्विकं रजोहरणमुखपोतिकारूपं ||| नवकं तु रजोहरणमुखपोतिकासप्तविधपात्रनिर्योगलक्षणं, इह च ये प्रावरणवर्जितास्ते स्वल्पोपधित्वेन विशुद्धजिनकल्पिका भण्यन्ते, तेषामेवेदं
॥११८॥ द्विकनवकलक्षणं भेदद्वयं, अविशुद्धजिनकल्पिकानां तु पूर्वोक्ता एव भेदा इति ॥ ४९८ ॥ जिनकल्पप्रतिपत्तिश्च परिकर्मणापूर्विकैव भवति
in Educator
For Private & Personel Use Only
jainelibrary.org