________________
धनुषां त्रीणि शतानि त्रयस्त्रिंशदधिकानि धनुषस्तृतीयभागश्च भवति बोद्धव्यः एषा खलु सिद्धानामुत्कृष्टाऽवगाहना भणिता, इयमत्र भावना-सिद्धिगमनयोग्योत्कृष्टावगाहनायाः पञ्चधनुःशतरूपायास्तृतीयो भागः षट्षष्ट्यधिकं धनुःशतं चतुःषष्टिश्चाङ्गुलानि, स च सिद्धिगमनकाले वदनोदरादिविवरपूरणेन सङ्कोचित इति धनुःशतपञ्चकात्पात्यते, ततः शेषमुत्कृष्टा सिद्धावगाहनेति, यत्पुनः पञ्चविंशत्यधिकपञ्चधनुःशतप्रमाणमुत्कृष्टमवगाहनामानं सिद्धिगमनयोग्यानां मरुदेवीप्रभृतीनां कापि श्रूयते तदादेशान्तरेण ज्ञातव्यं ॥ ४८८ ॥५६॥ इदानीं 'मज्झिमसिद्धोगाहण'त्ति सप्तपञ्चाशत्तमं द्वारमाह
चत्तारि य रयणीओ रयणि तिभागूणिया य बोद्धव्वा । एसा खलु सिद्धाणं मज्झिमओगाहणा
भणिया ॥ ४८९॥
चतस्रो रत्नयो-हस्ता रनिश्च त्रिभागोना बोद्धव्या, एषा खलु सिद्धानां मध्यमावगाहना भणिता, श्रीमहावीरस्य हि भगवतः सप्त ४ हस्ताः शरीरमानं, ततः सिद्धावस्थायां शुषिरपूरणायाङ्गुलाष्टकाधिकहस्तद्वयरूपे त्रिभागे समुत्सारिते शेषं चत्वारो हस्ताः षोडश चाङ्गुलानि
मध्यमावगाहनेति, उपलक्षणं चैतत् , तत उत्कृष्टायाः सिद्धावगाहनाया अधो जघन्यायाश्चोपरि सर्वापि मध्यमावगाहना भवतीत्यवगन्तव्यं, आह-जघन्यपदे सप्तहस्तोच्छ्रितानामागमे सिद्धिरुक्ता तत एषा जघन्या प्राप्नोति कथं मध्यमा?, तद्युक्तं, वस्तुतत्त्वापरिज्ञानात् , जघन्यपदे हि तीर्थकरापेक्षया सप्तहस्तोच्छ्रितानां सिद्धिरुक्ता सामान्यकेवलिनां तु हीनप्रमाणानामपि भवति, इदमपि चावगाहनामानं चिन्त्यते सामान्यसिद्धापेक्षया, ततो न कश्चिद्दोषः ॥ ४८९ ॥ ५७॥ इदानीं 'जहन्न सिद्धोगाहण'त्यष्टपञ्चाशत्तमं द्वारमाह
in Edualanb a
For Private & Personel Use Only
S
ainelibrary.org