SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ प्रव० सा. रोद्धारे तत्त्वज्ञानवि० ॥ ११६ ॥ Jain Education परिहीयमाना परिहीयमाना सर्वेषु चरमान्तेषु मक्षिकापत्रादपि प्रतनुतरत्वादङ्गुलासयेयभागमात्रबाहल्या सर्वश्वेत सुवर्णमयी स्फटिकनिर्मला उत्तानच्छत्रसंस्थिता घृतभृततथाविधकरोटिकाकारा च ईषत्प्राग्भारा नाम सिद्धशिला भवति, स्थापना चेयं, सर्वार्थाद् द्वादशभिर्योजनैर्लोकान्त इत्यन्ये, तस्याश्चेषत्प्राग्भाराया उपरि योजने गते लोकान्तो भवति, तस्य च योजनस्य य उपरितनक्रोशः - चतुर्थ गव्यूतं तस्य चक्रोशस्य सर्वोपरितने षष्ठे भागे - त्रयस्त्रिंशदधिकानि त्रीणि धनुःशतानि धनुविभागश्चेत्येवंरूपे सिद्धानामवगाहना – अवस्थितिर्भणिता, एतावत्या एवोत्कर्षतः सिद्धावगाहनाया भावात्, यदुक्तं - " तिन्नि सया तेत्तीसा धणुत्तिभागो य कोस छ भाओ । जं परमोगाहोऽयं तो ते कोसस्स छन्भागे ॥ १ ॥ " तथा 'अलोए' इह सप्तमी तृतीयार्थे अलोकेन - केवलाकाशास्तिकायरूपेण 'प्रतिहताः' स्खलिताः सिद्धाः, इह च तत्र धर्मास्तिकायाद्यभावात्तदानन्तर्यवृत्तिरेव प्रतिस्खलनं, न तु सम्बन्धे सति विघातोऽप्रतिघातत्वात्, सप्रतिघातानां हि सम्बन्धे सति विघातो नान्येषां इति, तथा 'लोकस्य' पश्चास्तिकायात्मकस्याप्रे - मूर्धनि 'प्रतिष्ठिताः' अपुनरागत्या व्यवस्थिताः, तथा 'इह' मनुष्यक्षेत्रे 'बोन्दि' तनुं त्यक्त्वा 'तत्र' लोकाने समयान्तरप्रदेशान्तरास्पर्शनेन गत्वा 'सिद्ध्यन्ति' निष्ठितार्था भवन्ति, अत्रानुस्वारलोपो द्रष्टव्यः, अथवा एकवचनतोऽप्येवमुपन्यासः सूत्रशैल्या अविरुद्ध एव, तथा चान्यत्रापि दृश्यते – “वत्थगंधमलंकारं, इत्थिओ सयणाणि य। अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चइ ॥ १ ॥” ।। ४८६ – ४८७ ।। ५५ ॥ सम्प्रति 'अवगाहणा य तेसिं उक्कोति षट्पञ्चाशत्तमं द्वारमाह तिणि सथा तेत्तीसा धणुत्तिभागो य होइ बोद्धव्वो । एसा खलु सिद्धाणं उक्कोसोगाहणा भणिया ॥ ४८८ ॥ For Private & Personal Use Only ५५ सिद्धस्थानं गा. ४८६-८७ ५६ उत्कृष्टावगा हना गा. ૪૦૦ ॥ ११६ ॥ jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy