________________
'दीहे'त्यादिगाथात्रयं, दीर्घ वा-पञ्चधनुःशतप्रमाणं ह्रखं वा-हस्तद्वयप्रमाणं वाशब्दान्मध्यमं वा विचित्रं, यच्चरमभवे आसीत् । संस्थानं ततः-तस्मात्संस्थानात् त्रिभागहीना-वदनोदरादिरन्ध्रपूरणात् तृतीयेन भागेन हीना सिद्धानामवगाहना, अवगाहन्ते अस्यामित्यवगाहना-स्वावस्थैव भणिता तीर्थकरगणधरैरिति, भवगतसंस्थानप्रमाणापेक्षया त्रिभागहीनं तत्र संस्थानमानमिति भावः ॥ ४८३ ॥ एतदेव स्पष्टतरमुपदर्शयति-'यत्संस्थान' यावत्प्रमाणं संस्थानं 'इह' मनुष्यभवे आसीत् तदेव 'भवं' भवन्ति प्राणिनः कर्मवशवर्तिनोऽस्मिन्निति भवं-शरीरं संसारं वा त्यजतः काययोगं परिजिहानस्येति भावः चरमसमये सूक्ष्मक्रियाऽप्रतिपातिध्यानबलेन वदनोदरादिरन्ध्रपूरणात् त्रिभागहीनं प्रदेशघनं आसीत् तदेव प्रदेशघनं मूलप्रमाणापेक्षया त्रिभागहीनप्रमाणं संस्थानं 'तत्र' लोकाग्रे 'तस्य' सिद्धस्य नान्यदिति || ॥४८॥ तस्य च किमेकेनैवाकारेणावस्थानमुतान्यथाऽपीत्याह-उत्तान एव उत्तानकः पृष्ठतोऽर्धावनतादिस्थानतः पार्श्वतो वा-तिर्यग्व्यवस्थितः, स्थितः-ऊर्द्धस्थानतः निषण्णश्चैव-उपविष्टः, किंबहुना ?, यो 'यथा' येन प्रकारेणावस्थितः सन् कालं करोति स 'तथा' | तेन प्रकारेणोपपद्यते सिद्ध इति ॥ ४८५ ॥ ५४ ॥ इदानीं 'अवठिइठाणं च सिद्धाणं' इति पञ्चपञ्चाशत्तमं द्वारमाह
ईसिप्पन्भाराए उवरिं खलु जोयणस्स जो कोसो। कोसस्स य छन्भाए सिद्धाणोगाहणाभणिया ॥४८६ ॥ अलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया । इह बोंदिं चइत्ताणं, तत्थ गंतूण सिज्झइ॥ ४८७॥ 'ईसी'त्यादि गाथाद्वयं, इह सर्वार्थसिद्धविमानादूर्द्ध द्वादशमिर्योजनैः पञ्चचत्वारिंशद्योजनलक्षविष्कम्भा वृत्तत्वादायामतोऽप्येतावमाना बहुमध्यदेशभागे च आयामविष्कम्भाभ्यामष्टयोजनप्रमाणे क्षेत्रेऽष्टयोजनबाहल्या तदनन्तरं सर्वासु दिक्षु विदिक्षु च प्रदेशहान्या
Jain Educati
o
nal
For Private & Personel Use Only
hw.jainelibrary.org