________________
Jain Educatio
| विस्वाम्याद्यपान्तरालेषु, तत्र ये जातिस्मरणादिना प्राप्तापवर्गास्ते तीर्थव्यवच्छेदसिद्धाः, तथा प्रतीत्य एकं किश्चिद् वृषभादि कम नित्यतादि| भावनाकारणं वस्तु बुद्धा - बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः, तथा एकस्मिन् समये एकका | एव सन्तो ये सिद्धास्ते एकसिद्धाः, तथा एकस्मिन् समये ये अनेके सिद्धास्ते अनेकसिद्धाः, तथा स्वयं-आत्मना बुद्धाः -तत्त्वं ज्ञातवन्तः स्वयंबुद्धास्ते सन्तो ये सिद्धास्ते स्वयंबुद्धसिद्धाः, तथा बुद्धा - आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः, इत्येतैः पूर्वोक्तस्तीर्थकरत्वादिभिः प्रभेदैः - विशेषैर्भणिताः - प्रतिपादिताः सिद्धान्ते सिद्धानां भेदा:- प्रकाराः पञ्चदशसङ्ख्याः । ननु तीर्थंकरसिद्धातीर्थकरसिद्धरूपभेदद्वये तीर्थसिद्धातीर्थसिद्धरूपभेदद्वये वा शेषभेदाः सर्वेऽप्यन्तर्भवन्ति तत्किमर्थं शेषभेदोपादानं ?, सत्यमन्तर्भवन्ति परं न विवक्षितभेदद्वयोपादानमात्रात् शेषभेदपरिज्ञानं भवति, विशेषपरिज्ञानार्थं चैष शास्त्रारम्भप्रयास इति शेषभेदोपादानमिति ॥ ४७३ - ४७४ ॥ ४९ ॥ इदानीं 'अवगाहणाय सिद्धा उक्किजहन्नमज्झिमाए य'त्ति पश्चाशत्तमं द्वारमाह
दो कोसा चउर जहन्नाए मज्झिमाए उ । अट्ठाहियं सयं खलु सिज्झइ ओगाहणाइ तहा ॥ ४७५ ।। एकस्मिन् समये युगपदुत्कृष्टायामवगाहनायां पश्वधनुः शतमानायामुत्कर्षतो द्वावेव सिद्ध्यतः, जघन्यायामवगाहनायां हस्तद्वयप्र| माणायां चत्वारः, मध्यमायां तु जघन्योत्कृष्टरूपायामष्टाधिकं शतं खलु सिद्ध्यति, ननु मरुदेवी नाभिकुलकरपत्नी, नाभेञ्च पञ्चविंशत्यधिकानि पञ्च धनुः शतानि तनुमानं यदेव च तस्य तनुमानं तदेव मरुदेव्या अपि, 'संघयणं संठाणं उच्चत्तं चैव कुलगरेहिं समं इति वचनात्, मरुदेवी च भगवती सिद्धा, ततः कथं पञ्चधनुः शतप्रमाणा उत्कृष्टाऽवगाहना घटते ? इति नैष दोषः, मरुदेवाया नाभेः किश्विदूनप्रमाणत्वात्, स्त्रियो ह्युत्तमसंस्थाना उत्तमसंस्थानेभ्यः पुरुषेभ्यः स्वस्वकालापेक्षया किश्चिदूनप्रमाणा भवन्ति, ततो मरुदेवाऽपि
national
For Private & Personal Use Only
%%
www.jainelibrary.org