________________
प्रव० सा
रोद्धारे
तत्त्वज्ञा
नवि०
॥ ११२ ॥
Jain Education
तित्थयर १ अतित्थयरा २ तित्थ ३ सलिंग ४ ऽन्नलिंग ५ थी ६ पुरिसा ७ । गिहिलिंग ८ नपुंसक ९ अतित्थसिद्ध १० पत्तेयबुद्धा ११ य ॥ ४७३ ॥ एग १२ अणेग १३ सयंबुद्ध १४ बुद्धबोहिय १५ पभेयओ भणिया । सिद्धते सिद्धाणं भेया पन्नरससंखति ॥ ४७४ ॥
'तित्थे 'त्यादिगाथाद्वयं, तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धाः, तथा अतीर्थकराः - सामान्यकेवलिनः सन्तो ये सिद्धास्ते 5तीर्थकरसिद्धाः, तथा तीर्यते संसारसागरोऽनेनेति तीर्थ - यथावस्थितजीवाजीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनं तच निराधारं न भवतीति सङ्घः प्रथमगणधरो वा वेदितव्यः तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः, तथा स्वलिङ्गे -- रजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः, तथा अन्यलिङ्गे - परिव्राजकादिसम्बन्धिनि वल्कलकषायादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये | सिद्धास्ते अन्यलिङ्गसिद्धाः, यदा अन्यलिङ्गिनामपि भावतः सम्यक्त्वादिप्रतिपन्नानां केवलज्ञानमुत्पद्यते तत्समयं च कालं कुर्वन्ति तदेदं द्रष्टव्यं, अन्यथा यदि दीर्घमायुष्कमात्मनः पश्यन्ति ततः साधुलिङ्गमेव प्रतिपद्यन्ते, तथा स्त्रिया लिङ्गं स्त्रीलिङ्गं स्त्रीत्वस्योपलक्षणमित्यर्थः तच त्रिधा - वेदः शरीरनिर्वृत्तिर्नेपथ्यं च तत्रेह शरीरनिर्वृत्या प्रयोजनं न वेदनेपथ्याभ्यां वेदे सति सिद्ध्यभावात्, नेपथ्यस्य चाप्रमाणत्वात् तस्मिन् खीलिङ्गे वर्तमानाः सन्तो ये सिद्धास्ते स्त्रीलिङ्गसिद्धाः, तथा पुरुषलिङ्गे शरीरनिर्वृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुरुषलिङ्गसिद्धाः, तथा गृहस्थाः सन्तो ये सिद्धास्ते गृहिलिङ्गसिद्धा मरुदेवीप्रभृतयः, तथा नपुंसकलिङ्गे वर्तमानाः सन्तो | ये सिद्धास्ते नपुंसकलिङ्गसिद्धाः, तथा तीर्थस्याभावोऽतीर्थं तीर्थस्याभावश्चानुत्पादोऽपान्तराले व्यवछेदो वा तस्मिन् ये सिद्धास्तेऽतीर्थ| सिद्धाः, तत्र तीर्थस्यानुत्पादे सिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्याः सिद्धिगमनकाले तीर्थमुत्पन्नमासीत्, तीर्थस्य व्यवच्छेदश्च सुचि
For Private & Personal Use Only
४७ ऊर्द्धादिसिद्धाः
४८ एकस
मयोत्कृष्ट
सिद्धाः
४९ सिद्धभेदाः गा. ४७१-७४
॥ ११२ ॥
w.jainelibrary.org