________________
से भद्रजिननामानं वन्दे । उत्सर्पिण्यां-भाविन्यां चतुर्विशतिर्जिनवराः 'कीर्तिताः' पूर्वभवसम्बन्धिनामप्रतिपादनकपूर्वकैः स्वनाममिः श्रीचन्द्रसूरिनाम्नाऽऽचार्येण स्तुताः सुखकराः शुभकरा वा भवन्तु सदाकालमिति । एते च तथाविधसम्प्रदायाभावात् शास्त्रान्तरैः सह विसंवादित्वाच्च न विशेषतो विवृताः ॥ ४५७-४७० ॥ ४६ ॥ सम्प्रति 'संखा उड्डाहतिरियसिद्धाणं' इति सप्तचत्वारिंशं द्वारमाह। चत्तारि उड्डलोए दुवे समुद्दे तओ जले चेव । बावीसमहोलोए तिरिए अट्टत्तरसयं तु ॥ ४७१॥
ऊर्ध्वलोके एकसमयनोत्कर्षतश्चत्वार एव सिद्ध्यन्ति, तथा द्वौ समुद्रे, त्रयः शेषजले हृदनद्यादिसम्बन्धिनि, सिद्धप्राभृताभिप्रायेण तु जलमध्ये चत्वारो द्रष्टव्याः, तथा अधोलोके-अधोपामादौ उत्कर्षत एकसमयेन द्वाविंशतिः सिद्ध्यति, सिद्धप्राभृते पुनरिदं दृश्यते || यथा-"चत्तारि उडलोए जले चउकं दुवे समुइंमि । अट्ठसयं तिरिलोए वीसपुहुत्तं अहोलोए" ॥१॥ एतट्टीकायां च विंशतिथक्त्वं द्वा(द्वि)विंशतिप्रमाणं गृहीतं, द्विप्रभृत्या नवभ्य इति पृथक्त्ववचनात् , ततो यद्यत्रापि दोवीसमहोलोए' इति पठ्यते ततः समीचीनं भवति, तथा तिर्यग्लोके उत्कर्षत एकसमयेनाष्टोत्तरं शतं सिद्ध्यतीति ॥ ४७१ ॥४७॥ सम्प्रति 'तह इक्कसमयसिद्धाणं'ति अष्टचत्वारिंशं द्वारमाह| इक्को व दोव तिन्नि व अट्ठसयं जाव एकसमयम्मि।मणुयगईएसिज्झइसंखाउयवीयरागाउ॥४७२॥ ६ एकस्मिन् समये जघन्यत एको द्वौ वा त्रयो वा सिद्ध्यन्ति उत्कर्षतोऽष्टोत्तरं शतं, ते च सिद्ध्यन्ति मनुष्यगतेः सकाशान शेषगतिभ्यः,
तेऽपि च सङ्ख्येयवर्षायुषः, असोयवर्षायुषां सिद्ध्यभावात् , तत्रापि वीतरागाः-अपगतरागाः उपलक्षणत्वाच अपगतसकलकर्मकलङ्काः, न पुनः कुतीर्थिकसम्मता इव सकर्माणोऽपि इति ॥४७२ ॥४८॥ 'ते य पन्नरसभेएहिति द्वारमिदानीमेकोनपञ्चाशं विवरीतुमाह
Jain Educati
on
For Private
Personel Use Only
alww.jainelibrary.org