SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ प्रव० सा. रोद्धारे तत्त्वज्ञानवि० ॥ १११ ॥ Jain Education 'स्तुमो' नामग्रहणपूर्वकं प्रणमामः, इयमत्र भावना - एतस्यामवसर्पिण्यां चतुर्थारकस्य दुष्षमसुषमालक्षणस्य पर्यन्ते एकोननवतिपक्षे - ष्ववतिष्ठमानेषु श्रीवर्धमानस्वामी निर्वृत्तः, ततो महावीरनिर्वाणानन्तरं एकोननवतिपक्षाधिके प्रत्येकमेकविंशतिवर्षसहस्रप्रमिते अवसर्पिणीसम्बन्धिपर्यन्तारकद्वये गते तथोत्सर्पिण्या अप्यतिदुष्षमा दुष्षमारूपे प्रत्येकमेकविंशतिवर्षसहस्रमाने एवाद्यारकद्वये गते तृतीयारकस्य च दुष्षमसुषमारूपस्यैकोननवतिपक्षेषु गतेषु श्रीपद्मनाभः समुत्पन्नः, ततः प्रागुक्तारकचतुष्टयसम्बन्धिसर्वप्रमाणमीलने चतुरशीतिर्वर्षसहस्रा जायन्ते, ये च पक्षाणां द्वे एकोननवती समधिके अवतिष्ठेते ते अल्पत्वान्न विवक्षिते इति । अथ तानेव क्रमेणाह - प्रथमं पद्मनाभं | जिनेश्वरं श्रीमन्महावीरपरमश्रावक श्रेणिकमहाराजजीवं नमामः, द्वितीयं च सूरदेवं वन्दे जीवं सुपार्श्वस्य श्रीमहावीरपितृव्यस्य, तृतीयं | सुपार्श्वनामानं कोणिकपुत्रउदायि महाराजजीवं प्रणष्टभववासमहं वन्दे, स्वयंप्रभजिनं पोट्टिलकजीवं चतुर्थमहं, सर्वानुभूतिनामानं दृढा - युषो जीवं पञ्चमं वन्दे तथा षष्ठं देवश्रुतजिनं वन्दे जीव कीर्तेः, सप्तमं उदयजिनं वन्दे जीवं च शङ्खनाम्नः श्रावकस्य, पेढालमष्टमकं आनन्दजीवं नमस्यामि, पोट्टिलजिनं च नवमं सुरकृतसेवं सुनन्दजीवस्य सम्बन्धिनं, शतकीर्तिजिनं दशमं वन्दे शतकस्य जीवं, एका| दशमं मुनिसुव्रतं वन्दे देवक्या जीवं, द्वादशमममजिनं सत्यकिजीवं जगत्प्रदीपं निष्कषायं त्रयोदशं वन्दे जीवं च वासुदेवस्य बलदेवस्य जीवं चतुर्दशं निष्पुलाकजिनं, सुलसाया जीवं वन्दे पञ्चदशं निर्ममत्वनामानं जिनं, रोहिणीजीवं नमामः षोडशं चित्रगुप्तमिति, सप्तदशं च वन्दे रेवत्या जीवं समाधिनामानं जिनं, संवरमष्टादशं सतालिजीवं प्रणिपतामि – नमामि द्वीपायनस्य जीवं यशोधरनामानं जिनमेकोनविंशं वन्दे, कृष्णजीवं गततृष्णं विंशतितमं विजयनामानमभिवन्दे, तथा वन्दे एकविंशतितमं नारदजीवं च मल्लिनामानं, | देवजिनं द्वाविंशं अम्बडजीवस्य संबन्धिनं, अमरजीवं त्रयोविंशतितममनन्तवीर्यामिधं जिनं वन्दे तथा स्वातिबुद्धजीवं चतुर्विंशतितमं For Private & Personal Use Only ४६ भाविजिनजीवाः गा. ४५७ ४७० ॥ १११ ॥ jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy