________________
अथ सुररचितानां-देवकृतानामतिशयानामेकोनविंशतिः कथ्यते, तत्र आकाशवदत्यन्तं स्वच्छो योऽसौ स्फटिकमणिस्तन्मयं सिंहासनं सपादपीठं-पादपीठयुक्तं १ तथा छत्रवयमतिपवित्रं २ तथा जिनस्य पुरतोऽनेकलघुपताकिकासहस्रसुन्दरः समुत्तुङ्गो निस्सपत्नरत्नमयः शेषध्वजापेक्षयाऽतिमहत्त्वादिन्द्रश्चासौ ध्वजश्च इन्द्रत्वसूचको वाध्वज इन्द्रध्वजः ३ तथोभयोः पार्श्वयोर्यक्षहस्तगते सिते चामरे ४ तथा पुरतः पद्मप्रतिष्ठितं स्फुरत्किरणचक्रं धर्मप्रकाशकं चक्रं धर्मचक्रं ५ एतानि च सिंहासनादीनि पञ्चापि यत्र यत्र जगद्गुरुर्विचरति तब तब गगनगतानि गच्छन्ति, तथा यत्र यत्र प्रभुस्तिष्ठति तत्र तत्र विचित्रपत्रपुष्पपल्लवस्पृहणीयच्छत्रध्वजघण्टापताकादिपरिवृतः प्रादुर्भवत्यशोकवृक्षः ६ तथा चतुर्मुखं चतुर्दिशं मूर्तिचतुष्कं, तत्र पूर्वाभिमुखं भगवान् स्वयमुपविशति शेषासु च तिसृषु दिक्षु प्रतिरूपकाणि तीर्थकराकृतिमन्ति तीर्थकरप्रभावादेव च तीर्थकररूपानुरूपाणि सिंहासनादियुक्तानि देवकृतानि भवन्ति शेषदेवादीनामपि अस्माकं स्वयं कथयतीति प्रतिपत्त्यर्थ ७ तथा| समवसरणे मणिकाञ्चनताररचितं शालत्रिकं, तत्र तीर्थक्करप्रत्यासन्नप्रथमप्राकारो नानाप्रकारनिःसपत्नरत्नमयो वैमानिकसुरैर्विरच्यते द्वितीयो मध्यवर्ती कमनीयकनकमयो ज्योतिष्कविबुधैर्विधीयते तृतीयस्तु बहिर्भूतस्तारतरकान्तिराजितरजतमयो भवनपतिदेवैर्वितन्यते ८ तथा
'नवकनकपङ्कजानि' नवसङ्ख्यानि काञ्चनकमलानि नवनीतस्पर्शानि क्रियन्ते, तत्र च द्वयोर्भगवान् स्वकीयक्रमकमलयुगलं विन्यस्य वि& चरति अन्यानि च सप्त पद्मानि पृष्ठतस्तिष्ठन्ति तेषां च यद्यत्पश्चिमं तत्तत्पादन्यासं कुर्वतो भगवतः पुरतो भवति ९ तथा यत्र यत्र भग
वान् विहरति तत्र तत्राधोमुखाः कण्टकाः संपद्यन्ते १० तथा नित्यं-सर्वदा अवस्थितमात्रा-अवृद्धिस्वभावाः प्रभोः-भगवतस्तिष्ठन्ति-आसते केशरोमनखाः, केशाः-शिरःकूर्चसम्भवाः रोमाणि-शेषशरीरसम्भवानि नखाः-पाणिपादजाः ११ तथा इन्द्रियार्था-विषयाः पञ्चापि-स्परिसरूपगन्धशब्दस्वरूपा अमनोज्ञानामभावेन मनोज्ञानां च प्रादुर्भावेन मनोरमा-मनःप्रीणका भवन्ति १२ तथा षडपि ऋतवो-वसन्ताद्याः
अ.सा.१९
Jain Education
For Private Personel Use Only
ujainelibrary.org