________________
SCIENCE
प्रव० सा- तिर्यग्जनः 'प्रभूतोऽपि' कोटीकोटीप्रमाणोऽपि 'माति' परस्परासम्बाधया सुखेनावतिष्ठते, तथा वाणी अर्धमागधीभाषा भगवताऽभिधी-||४० द्वारे रोद्धारे *यमाना नरतिर्यकसुराणां प्रत्येकं 'निजनिजभाषया' स्वखभाषया कृत्वा धर्मावबोधका धर्मावबोधदा वा भवति, अयमर्थ:-योजनव्यापिनी अतिशयाः तत्त्वज्ञा
एकस्वरूपाऽपि भगवतो भारती वारिदविमुक्तवारिवत्तत्तदाश्रयानुरूपतया परिणमति, यत उक्तम्-"देवा दैवीं नरा नारी, शबराश्चापि | | चतुस्त्रिंनवि० शाबरीम् । तिर्यञ्चोऽपि हि तैरश्चीं, मेनिरे भगवद्गिरम् ॥१॥" न ह्येवंविधभुवनाद्भुतमतिशयमन्तरेण युगपदनेकसत्त्वोपकारः शक्यते शत् गा.
कर्तुमिति, तथा पूर्वोत्पन्ना रोगाः-ज्वरारोचकादय उपशाम्यन्ति अपूर्वाश्च नोत्पद्यन्ते, तथा न च-नैव भवन्ति पूर्वभवनिबद्धानि जाति- ४४१-५० ॥१०८॥
प्रत्ययानि च वैराणि-परस्परविरोधाः, तथा दुर्भिक्षं-दुष्कालः तथा डमरः-खचक्रपरचक्रकृतो विप्लवः तथा दुष्टदेवतादिकृतं सर्वगतं मरणं दुर्मारिः तथा ईतयः-प्रचुरशलभशुकमूषकाद्या धान्यादिविनाशिकाः तथाऽतिवृष्टिः-अतिजलपात: तथाऽनावृष्टिः-सर्वथा जलपाता
भावः, एते च रोगादयो यत्र यत्र भगवान विहरति तत्र तत्र चतसृषु दिक्षु प्रत्येकं पञ्चविंशतियोजनमध्ये न जायन्ते, तदुक्तं समवायाङ्गेर || "जओ जओऽवि य णं अरिहंता भगवंतो विहरंति तओ तओऽविय णं जोअणपणवीसाए णं ईई ण भवइ मारी न हवइ परचकं न
भवइ सचकं न भवइ अइबुट्ठी न भवइ अणावुट्ठी न भवइ, दुभिक्खं न भवइ, पुव्वुप्पण्णावि य णं उप्पाइया वाही खिप्पामेव उवसमंति” [यत्र यत्रापि च अर्हन्तो भगवन्तो विहरन्ति तत्र तत्रापि पञ्चविंशतौ योजनेषु ईतयो न भवन्ति मार्यो न भवन्ति खचक्रं न
भवति परचक्रं न भवति अतिवृष्टिर्न भवति अनावृष्टिर्न भवति दुर्भिक्षं न भवति पूर्वोत्पन्ना अपि च व्याधयः क्षिप्रमेवोपशाम्यन्ति त्ति, ल स्थानांगटीकायामपि दशस्थानके लिखितं-“महावीरस्य भगवतः स्वप्रभावप्रशमितयोजनशतमध्यगतवैरिमारिविडुरदुर्भिक्षाद्युपद्रव
स्थापि” इति, तथा जिनशिरसः पश्चाद्भागेऽतिभास्वरतया जितबहुतरणिः-तिरस्कृतद्वादशाकंतेजाः प्रसरति भामण्डलस्य-प्रभापटलस्योद्योतः ।
2-34-5522
R-CANCERT-SCRECORE
-ARI
For Private Personal use only
ww.jainelibrary.org