SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ १०७ ॥ Jain Education काष्टीभूतावस्थामालम्ब्य तत्रैव देशेऽवश्यं स्थातव्यं, प्रयोजने गमनागमनादेरपि तत्र सम्भवादिति, तस्मान्निखिलगीतार्थसम्मतमिदमुत्तरमत्र दीयते - यथैकयोजनमात्रायां समवसरणधरणावपरिमितसुरासुरादिलोकसंमर्देऽपि न परस्परमाबाधा काचित् तथा तेषामाजानुप्रमाणक्षिप्तानाममन्दमकरन्दसम्पत्सम्पादितानन्दमन्दारमचकुन्दकुन्दकुमुदकमलदलमुकुलमालतीविकचविच किलप्रमुख कुसुमसमूहानामप्युपरि सच्चरिष्णौ स्थाष्णौ च मुनिनिकरे विविधजननिचये च न काचिदाबाधा प्रत्युत सुधारससिच्यमानानामिव बहुतरसमुल्लासस्तेषामापनिपद्यते, अचि - | न्तनीयनिरुपमतीर्थकरप्रभावोज्जृम्भमाणप्रसादादेवेति । तथा दिव्यध्वनिविषये पूर्वपक्षचञ्चवः केचिदाचक्षते - ननु सकलजनाहाददायी जा| त्यशर्कराद्राक्षादिरसमिश्रितपरिकथितस्निग्धदुग्धरससहोदरस्तीर्थकरस्यैव ध्वनिरसौ कथं प्रतिहारकृतत्वमस्य युज्यते ?, युक्तमिदमुदितमुदारमतिमिः, तीर्थकृतां वाणी हि परममधुरिममनोरमपदार्थसार्थातिशायिशब्दशालिनी स्वभावत एव परं यदा मालवकैशिक्यादिग्रामरागैर्भव्यजनोपकाराय देशनां भगवान् विधत्ते तदा देवैरुभयपार्श्ववर्तिभिरतिमनोहरवेणुवीणादिकलकणितकरणेन स एव तीर्थकरशब्दः कलतरः क्रियते, यथा मधुरगानप्रवृत्ततरुणतरगायनीजनगीतरवो ऽनवमवैणिकवैणविका दिवीणावेण्वादिरवैरित्येतावताऽंशेन प्रतिहारदेवकृतत्वमस्य न विरुद्ध्यते इति सर्व समञ्जसम् ३९ । इदानीं 'चउत्तीसातिसयाणं' ति चत्वारिंशत्तमं द्वारमाह रोयसेयरहिओ देहो १ धवलाई मसरुहिराई २ । आहारानीहारा अहिस्सा ३ सुरहिणो सासा ४ ॥ ४४१ ॥ जम्मा इमे चउरो एक्कारसकम्मखयभवा इहि । खेते जोयणमेत्ते तिजयूजणो माइ बहुओऽवि ५॥४४२ ॥ नियभासाए नरतिरिसुराण धम्माववोहया वाणी ६ । पुव्वभवा रोगा उवसमंति ७ न य हुंति वेराई ८ ॥ ४४३ ॥ दुभिक्ख ९ डमर १० दुम्मारि ११ ईई १२ For Private & Personal Use Only ४० द्वारे अतिशयाः चतुस्त्रि शत् गा. ४४१-५० ॥ १०७॥ jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy