SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ द्धनूंषि वर्धमानस्य । जिनानां शेषाणामशोकः शरीराद् द्वादशगुणः ॥ १॥] इति । ननु महावीरस्यापि कापि निजशरीराद् द्वादशगु४ाणोऽशोकपादपः प्रतिपाद्यते, यदुक्तमावश्यकचूर्णी श्रीमहावीरसमवसरणप्रस्तावे-"असोगवरपायवं जिणउच्चत्ताओ बारसगुणं सको विउव्वईत्ति [अशोकवरपादपं जिनोच्चत्वाद् द्वादशगुणं शक्रो विकुर्वति] तत्कथमिदमुपपद्यते ? इति, अत्रोच्यते-केवलमस्यैवाशोकतरोस्तत्र मानमुक्तं, इह तु सालवृक्षसहितस्य, ततोऽत्रापि केवलो द्वादशगुण एव, स तु सप्तहस्तमानश्रीमहावीरशरीराद् द्वादशगुणीकृतः सन्नेकविशतिर्धनूंषि भवति, सालवृक्षोऽप्येकादशधनुःप्रमाणः, ततो मिलितानि द्वात्रिंशद्धनूंषि युज्यन्ते इति सम्प्रदायः, समवायाङ्गेऽप्युक्तं-13 'बत्तीसं धणुयाई चेइयरुक्खो उ वद्धमाणस्स । निच्चोउगो असोगो उच्छन्नो सालरुक्खेणं ॥१॥” तट्टीका च 'निच्चोउगो'त्ति नित्यंसर्वदा ऋतुरेव-पुष्पादिकालो यस्य स नित्यर्तुकः, 'असोगो'त्ति अशोकाभिधानो यः समवसरणभूमिमध्ये भवति, 'उच्छन्नो सालरुक्खेणं'ति अवच्छन्नः सालवृक्षेणेति" अत एव वचनादशोकस्योपरि सालवृक्षोऽपि कथञ्चिदस्तीत्यवसीयत इति, तथा आयोजनभूमिकुसुमवर्षविषये कृपार्टीकृतचेतसः केचन प्रेरयन्ति-ननु विकचकान्तकुसुमप्रचयनिचितायां समवसरणभुवि जीवदयारसिकान्तःकरणानां श्रमणानां कथमवस्थानगमनादिकं कर्तुं युज्यते ?, जीवविघातहेतुत्वादिति, तत्र केचिदुत्तरयन्ति-तानि कुसुमानि सचित्तान्येव न भवन्ति, विकुर्वणयैव देवैस्तेषां विहितत्वादिति, एतच्चायुक्तं, यतो न तत्र विकुर्वितान्येव पुष्पाणि भवन्ति, जलजस्थलजानामपि कुसुमानां सम्भवात् , न चैतदनार्ष-"बिंटट्ठाई सुरभिं जलथलयं दिव्वकुसुमनीहारिं । पयरिंति समंतेणं दसद्धवणं कुसुमवुहि ॥ १ ॥” [वृत्तस्थायिनी सुरभि जलस्थलजानां दिव्यकुसुमगन्धनिर्झरिणी दशार्धवर्णा कुसुमवृष्टिं समन्ततो विकिरन्ति ॥१॥]ति सिद्धान्तवचनाद्, एवं श्रुत्वाऽपरे सहृदयंमन्या उत्तरयन्ति-यत्र व्रतिनस्तिष्ठन्ति न तत्र देशे देवाः पुष्पाणि किरन्तीति, एतदप्युत्तराभासं, न खलु तपोधनैः ARE Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy