SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ प्रव० सा 'रोद्धारे तत्त्वज्ञानवि० ॥ १०६ ॥ Jain Educatio तान्यष्टौ तद्यथा - उल्लसद्द्बहलपाटलपल्लवजालसर्वकालविकसद्समानकुसुमसमूहविनिः सरदविरलपरमपरिमलोद्गारभरसमाकृष्यमाणभ्रमद्भमरनिकुरम्बरणरणारावशिशिरीकृतप्रणमद्भव्यजननिकरश्रवणविवरोऽतिमनोरमाकारशालिविशालशालः कङ्केल्लितरुः - अशोकतरुर्जिनस्योपरि देवैर्विधीयते १ तथा जलजस्थलजविकुर्वणाविरचितानां पञ्चवर्णानां विकखराणामधः कृतवृन्तानामुपरिमुखाणां कुसुमानां पुरुषजानुद्वयसं वृष्टिः क्रि ( प्रन्थानं ४००० ) यते २ तथा सरसतरसुधारससहोदरः सरभसविविधदेशापहृतमुक्तापरव्यापारप्रसारितवदनैः कुरङ्गकुलैराकुलाकुलैरुत्कर्णैराकर्ण्यमानः सकलजनानन्दप्रमोददायी दिव्यो ध्वनिर्वितन्यते ३, तथा कमनीयकदलीकाण्डप्रकाण्डतन्तुमण्डलीरुचिरमरीचिचिकुरनिकुरम्बडम्बरितातिजात्यविचित्र पवित्रनिःसपत्नरत्नविसरविनिःसरत्किरणनिकुरम्बजालेन दिशि दिशि संसूत्र्यमाणेन्द्रचापकान्तकाञ्चनमयोद्दण्डदण्डरमणीया चारुचामरश्रीर्विस्तार्यते ४, तथा अतिभास्वरसटापाटलबन्धुरस्कन्धबन्धविकटप्रकटदंष्ट्राकराल सजीवायमानसिंहरूपालङ्कृतमनेकप्रकाण्डरत्नखण्डविनिर्यद्वर्यकिरणावलि विलुप्यमानविलसत्तमस्काण्डडम्बरं सिंहासनं चारुतरं विरच्यते ५, तथा शर| त्कालविलसदखण्ड मयूखमण्डलप्रचण्डचण्डमरीचिमण्डलमिव दुरालोकं तीर्थकरकायतः प्रकृतिभास्वरात्तदीयनिरुपमरूपाच्छ। दुकमतुच्छं प्रभापटलं सपिण्ड्य जिनशिरसः पञ्चाद्भागे मण्डलायमानं भामण्डलमातन्यते ६, तथा तारतरविस्फारभाङ्कारभरितभुवनोदरविवरा भे|रयो - महाढक्काः क्रियन्ते ७, तथा भूर्भुवः स्वस्त्रयैकसाम्राज्यसंसूचकं शरदिन्दुकुन्दकुमुदावदातं प्रलम्बमानमुक्ताफलपटलावचूलमालामनोरमं छत्रत्रयमतिपवित्रमासूत्रयते ८ इत्यष्टौ प्रातिहार्याणि जिनेश्वराणां जयन्तीति ॥ तत्र कङ्केलिः श्रीमहावीरस्य द्वात्रिंशद्धनुरुच्छ्रितः, | शेषाणां तु ऋषभस्वाम्यादीनां पार्श्वनाथपर्यन्तानां त्रयोविंशतेरपि तीर्थकृतां निजनिजशरीरमानाद् द्वादशगुणः, यदुक्तम् - "उसभस्स | तिन्नि गाउय बत्तीस धणूणि वद्धमाणस्स । सेसजिणाणमसोओ सरीरओ बारसगुणो उ ॥ १ ॥” [ ऋषभस्य त्रीणि गव्यूतानि द्वात्रिंश For Private & Personal Use Only 6*%* ३९ द्वारे प्रातिहा - र्याष्टकं गा. ४४० ॥ १०६ ॥ www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy