________________
RESE SAUSIOSXXH
'आसायणे'त्यादिगाथात्रय, एताः परिस्फुरद्विविधदुःखपरम्पराप्रभवभवभ्रमणकारणमिति विभाव्य-परिभाव्य यतयोऽस्नानकारित्वेन मलमलिनदेहत्वान्न जैनमन्दिरे निवसन्तीति समय:-सिद्धान्तः ॥ तमेव समयं व्यवहारभाष्योक्तं दर्शयति-एषा तनुः नापितापि दुरभिगन्धमलप्रस्खेदस्राविणी, तथा द्विधा वायुपथः-अधोवायुनिर्गम उच्छवासनिःश्वासनिर्गमश्च यद्वा द्विधा मुखेन अपानेन च वायुवहो वापि-वातवहनं च, तेन कारणेन न तिष्ठन्ति यतयश्चैत्ये-जिनमन्दिरे । यद्येवं तिमिश्चैत्येष्वाशातनाभीरुभिः कदाचिदपि न गन्तव्यं, तत्राह-तिस्रः स्तुतयः कायोत्सर्गानन्तरं या दीयन्ते ता यावत्कर्षति-भणतीत्यर्थः, किंविशिष्टाः ? तत्राह-त्रिश्लोकिका:-त्रयः श्लोकाःछन्दोविशेषरूपा अधिका न यासु ताः तथा, 'सिद्धाणं बुद्धाणं' इत्येकः श्लोकः 'जो देवाणवि' इति द्वितीयः ‘एकोवि नमुक्कारों' इति तृतीय
इति, अग्रेतनगाथाद्वयं स्तुतिश्च चतुर्थी गीतार्थाचरणेनैव क्रियते, गीतार्थाचरणं तु मूलगणधरभणितमिव सर्व विधेयमेव सर्वैरपि मुमुक्षुभि5 रिति, तावत्कालमेव तत्र जिनमन्दिरेऽनुज्ञातमवस्थानं यतीनां, कारणेन पुनर्धर्मश्रवणाद्यर्थमुपस्थितभविकजनोपकारादिना परतोऽपि-चैत्यदि वन्दनाया अग्रतोऽपि यतीनामवस्थानमनुज्ञातं, शेषकाले तु साधूनां जिनाशातनादिभयान्नानुज्ञातमवस्थानं तीर्थकरगणधरादिमिः, ततो व्र| तिमिरप्येवमाशातनाः परिडियन्ते, गृहस्थैस्तु सुतरां परिहरणीया इति । इयं च तीर्थकृतामाज्ञा, आज्ञाभङ्गश्च महतेऽनर्थाय सम्पद्यते, यदाहुः-आणाइच्चिय चरणं' (आज्ञयैव चारित्र) इत्यादि ॥३८॥ साम्प्रतं 'अट्ठ महापाडिहेराईति एकोनचत्वारिंशत्तमं द्वारमाह
कंकिल्लि १ कुसुमवुट्ठी २ देवज्झुणि ३ चामरा ४ऽऽसणाई ५ च । भावलय ६ भेरि ७ छत्तं ८ ज
यंति जिणपाडिहेराई ॥४४०॥ तत्र प्रतिहारा इव प्रतिहारा:-सुरपतिनियुक्ता देवास्तेषां कर्माणि-कृत्यानि प्रातिहार्याणि, 'वर्णदृढादिभ्यः ष्यश्चेति कर्मणि प्यत्र
Jain Education in
KI
For Private
Personal Use Only
Sellainelibrary.org