SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Jain Educatio दलरूपा, पर्पटवटिके प्रसिद्धे, तत एतेषां विसारणं - उद्वापनकृते विस्तारणं, तथा नाशनं नृपदायादादिभयेन चैत्यस्य गर्भगृहादिष्वन्तर्धानं, तथा आक्रन्दं रुदितविशेषं पुत्रकलत्रादिवियोगे तत्र विधत्ते तथा विकथां विविधां कथां रमणीयरमण्यादिसम्बन्धिनीं कुरुते, तथा शराणां वाणानामीक्षूणां च घटनं, 'सरच्छेति' पाठे तु शराणां अस्त्राणां च धनुः शरादीनां घटनं, तथा तिरश्चां अश्वगवादीनां संस्थापनं, तथा अग्निसेवनं शीतादौ सति तथा रन्धनं पचनमन्नादीनां तथा परीक्षणं द्रम्मादीनां तथा नैषेधिकीभञ्जनं अवश्यमेव हि चैत्यादौ प्रविशद्भिः सामाचारीच तुरे नैषेधिकी करणीया, ततस्तस्या अकरणं -भजनमाशातनेति द्वितीयवृत्तार्थः ॥ २ ॥ तथा छत्रस्य तथा उपानहोस्तथा शस्त्राणां - खङ्गादीनां तथा चामरयोश्च देवगृहाद्वहिरमोचनं मध्ये वा धारणं, तथा मनसोऽनेकान्तता - अनैकाग्र्यं नानाविकल्पकल्पनमित्यर्थः, तथा अभ्यञ्जनं तैलादिना, तथा सञ्चित्तानां - पुष्पताम्बूलपत्रादीनामत्यागो बहिरमोचनं, तथा त्याग:-परिहरणं 'अजिए' इति अजीवानां हारमुद्रिकादीनां, बहिस्तन्मोचने हि अहो मिक्षाचराणामयं धर्म इत्यवर्णवादो दुष्टलोकैर्विधीयते, तथा सर्वज्ञप्रतिमानां दृष्टौ दृग्गोचरतायां नो-नैवा अलिकरणं -अञ्जलिविरचनं, तथा एकशाटकेन - एकोपरितनवस्त्रेण उत्तरासङ्गभङ्ग- उत्तरासङ्गस्याकरणं, तथा मुकुटं - किरीटं मस्तके धरति तथा मौलिं- शिरोवेष्टनविशेषरूपां करोति, तथा शिरः शेखरं कुसुमादिमयं विधत्ते, तथा हुड्डांपारापतनालिकेरादिसम्बन्धिनीं विधत्ते, तथा 'जिंडुह'त्ति कन्दुक: गेड्डिका - तत्क्षेपणी वक्रयष्टिका ताभ्यां आदिशब्दाद्गोलिकाकपर्दिकामिश्र रमणं - क्रीडनं, तथा ज्योत्कारकरणं पित्रादीनां तथा भाण्डानां - विटानां क्रिया-कक्षावादनादिका, इति तृतीयवृत्तार्थः ॥ ३ ॥ तथा रेकारं तिरस्कारप्रकाशकं रे रे रुद्रदत्तेत्यादि वक्ति, तथा धरणकं- रोधनमपकारिणामधमर्णादीनां च, तथा रणं-संग्रामकरणं, तथा विवरणं वालानां - केशानां विजटीकरणं, तथा पर्यस्तिकाकरणं तथा पादुका - काष्ठादिमयं चरणरक्षणोपकरणं, तथा पादयोः प्रसारणं tional For Private & Personal Use Only wwww.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy