SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Jain Education योरप्युञ्चत्वं चत्वारि धनुःशतानि साधनि, ततः परं सम्भवादीनां जिनानां पञ्चाशत्पञ्चाशद्धनुःपरिहणिस्तावद्यावत्पुष्पदन्तः - सुविधिजिनो धनुः शतमेकं भवेदुञ्चः, अयमर्थः - तृतीयगृह के सम्भवजिनस्य चत्वारि धनुःशतानि देहमानं, चतुर्थगृहके अभिनन्दनस्य त्रीणि धनुःशतानि साधनि, पञ्चमगृह के सुमतिजिनस्य त्रीणि धनुः शतानि षष्ठगृहे पद्मप्रभस्य द्वे धनुःशते सार्धे, सप्तमगृहे सुपार्श्वस्य द्वे धनुःशते, अष्टमगृहे चन्द्रप्रभस्य धनुःशतं सार्धं, नवमगृहके धनुः शतमेकं सुविधेरिति, ततो दशमग्रह के शीतलस्य नवतिर्धनूंषि, पुरत:-अनन्तरं श्रेयांस त्रिपृष्ठादीनां यावद्धर्मजिनपुरुषसिंहौ तावत्तेषामुच्चत्वमिदं धनुरशीत्यादिकं क्रमशो भवति, अयमर्थ: - एकादशे गृहके श्रेयांस| जिनत्रिपृष्ठवासुदेवयोरशीतिर्धनूंषि, ततो द्वादशके गृह के वासुपूज्य जिनद्विपृष्ठवासुदेवयोः सप्ततिर्धनूंषि, ततस्त्रयोदशगृहे विमलजिनस्वयम्भूवासुदेवयोः षष्टिर्धनूंषि, ततश्चतुर्दशगृहके अनन्तजिनपुरुषोत्तमवासुदेवयोः पञ्चाशद्धनूंषि, ततः पञ्चदशगृहके धर्मजिनपुरुपसिंहवासुदेवयोः पञ्चचत्वारिंशद्धनूंषीति, तथा पोडशकगृहे मघवतश्चकवर्तिनो द्विचत्वारिंशद्धनूंषि तदर्धं च, हस्तद्वयमित्यर्थः सप्तदशगृहके एकचत्वारिंशद्धनूंषि तदर्धं च सनत्कुमारचक्रवर्तिनः, अष्टादशे गृहे शान्तिजिनस्य परिपूर्णानि चत्वारिंशद्धनूंषि एकोनविंशे गृहके कुन्थुजिनेन्द्रस्य पञ्चत्रिंशद्धनूंषि, विंशतितमे गृहके त्रिंशद्धनूंषि अरजिनस्य, तत एकविंशतितमे गृहके पुरुषपुण्डरीकस्य वासुदेवस्य एकोनत्रिंशद्धनूंषि, द्वाविंशतितमगृहे सुभूमचक्रवर्तिनोऽष्टाविंशतिर्धनूंषि, त्रयोविंशतितमगृहके दत्तस्य वासुदेवस्य षड्विंशतिर्धनूंषि, चतुर्विंशे गृहे महिल | जिनस्य पञ्चविंशतिर्धनूंषि, पञ्चविंशतितमे गृहके सुव्रतजिनमहापद्मचक्रवर्तिनोविंशतिर्धनूंषि, षड्विंशतितमे गृहके नारायणवासुदेवस्य षोडश धनूंषि, सप्तविंशतितमे गृहे नमिनाथहरिषेणचक्रिणोः पञ्चदश धनूंषि, अष्टाविंशतितमे गृहे जयचक्रवर्तिनो द्वादश धनूंषि, एकोनत्रिंशत्तमे गृहे नेमिजिनकृष्णाभिधानवासुदेवयोर्दश धनूंषि उच्चत्वं, त्रिंशत्तमे गृहे ब्रह्मदत्तचक्रिणः सप्त धनूंषि एकत्रिंशे गृहके पार्श्वजिनस्य For Private & Personal Use Only w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy