________________
प्रव० सा रोद्धारे
तत्त्वज्ञानवि०
॥ १०२ ॥
Jain Education
नव रत्नयो हस्ताः, द्वात्रिंशत्तम गृह के श्रीवीरजिनस्य सप्त हस्तास्तनुमानं ॥ एवमुञ्चत्वं चतुर्थपङ्को सर्वेषां प्रथमजिनादीनां भणितं इदानीं पञ्चम पङ्किगृहकनिविष्टं सर्वेषां जिनादीनां क्रमेणायुष्कं वक्ष्यामि, तदेवाह - 'उसहभरहाणं' इत्यादि, वृषभजिनभरत चक्रिणोर्द्वयोरपि प्रथमगृहके चतुरशीतिः पूर्वाणां शतसहस्राणि - लक्षाणि आयुः, द्वितीयगृह के अजितजिनसगरचक्रिणोर्द्वयोरपि द्विसप्ततिः पूर्वलक्षाणि, इतः पुरतो यथाक्रमं सम्भवादिजिनानां परिपाट्या षष्टिः पञ्चाशञ्चत्वारिंशत् त्रिंशत् विंशतिर्दश द्वे एकं लक्षं पूर्वाणामिति, अयमर्थः —– तृतीये गृहके सम्भवस्य षष्टिः पूर्वलक्षाः सर्वायुः, चतुर्थगृहके अभिनन्दनस्य पञ्चाशत्पूर्वलक्षाः, पञ्चमगृहे सुमतिजिनस्य चत्वारिंशत्पूर्वलक्षाः, षष्ठगृहे पद्मप्रभस्य त्रिंशत्पूर्वलक्षाः, सप्तमगृहे सुपार्श्वस्य विंशतिः पूर्वलक्षाः, अष्टमगृहे चन्द्रप्रभस्य दश पूर्वलक्षाः, नवमगृहे सुविधेद्वे पूर्वलक्षे, | दशमगृहे शीतलस्य एकं पूर्वलक्षमिति, तथा एकादशे गृहे श्रेयांसजिनत्रिपृष्ठवासुदेवयोश्चतुरशीतिर्वर्षलक्षाः, पुरतः - अनन्तरं जिनकेशीनां - तीर्थकृद्वासुदेवानां यावद्धर्मपुरुषसिंहौ तावत्परस्परं तुल्यमिदमायुः, तदेव दर्शयति — 'कमसो' इत्यादि, क्रमशः - परिपाट्या द्विसप्ततिः षष्टित्रिंशत् दशैव शतसहस्राणि - वर्षलक्षाणि, अयमर्थ:- द्वादशे गृहे वासुपूज्यद्विपृष्ठवासुदेवयो द्विसप्ततिर्वर्ष लक्षाः, त्रयोदशे गृहे विमलजिनस्वयम्भूवासुदेवयोः षष्टिर्वर्षलक्षाः, चतुर्दशे गृहे अनन्तजिनपुरुषोत्तमवासुदेव योस्त्रिंशद्वर्षलक्षाः, पञ्चदशे गृहे धर्मजिनपुरुषसिंहवासु| देवयोर्दश वर्षलक्षा इति, तथा षोडशे गृहके मघवतश्चक्रिणः पञ्च वर्षलक्षाः, सप्तदशे गृहके सनत्कुमारचक्रवर्तिनस्त्रीणि वर्षलक्षाणि, अअष्टादशे गृहे शान्तिजिनचक्रवर्तिनो वर्षलक्षमेकं, एकोनविंशतितमगृहे कुन्थोर्जिनचक्रिणः पञ्चनवतिर्वर्षसहस्राः सर्वायुर्भणितं, विंशतितमगृहे अरजिनस्य चक्रिणश्चतुरशीतिवर्षसहस्राण्यायुर्भवति, एकविंशतितमे गृहे पञ्चषष्टिवर्षसहस्राण्यायुः पुरुषपुण्डरीकवासुदेवस्य द्वाविंशतितमगृहे षष्टिर्वर्षसहस्राः सुभूमचक्रिणः, त्रयोविंशे गृहे षट्पञ्चाशद्वर्षसहस्रा भवन्ति दत्तस्य वासुदेवस्य चतुर्विंशतितमे गृहे पञ्चप
For Private & Personal Use Only
३६ त्रिषष्टिशलाकान्तरादि
गा. ४०६४२९
॥ १०२ ॥
wjainelibrary.org