________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
३६ त्रिषष्टिशलाकान्तरादि गा.४०६४२९
॥१०
॥
प्रथमे गृहके तिर्यगपेक्षया द्वात्रिंशद्गृहकात्मके पञ्चदशस्ववान्तरगृहकेषु क्रमेण पञ्चदश जिना-ऋषभाद्या धर्मनाथपर्यन्ता निरन्तराः स्थाप्यन्ते, ततो गृहकद्वये शून्यद्विकं, ततो गृहकत्रये शान्तिकुन्थुअरजिनाः क्रमेण स्थाप्यन्ते, ततो गृहकत्रये शून्यत्रिकं, ततो गृहकद्वये क्रमेण मल्लिमुनिसुव्रतौ स्थाप्येते, तत एकस्मिन् गृहके शून्यं, तत एकस्मिन् गृहके नमिजिनः स्थाप्यः, ततः परस्मिन् गृहके शून्यं, ततः परस्मिन् गृहके नेमिजिनः, ततः परस्मिन् शून्यं, ततः परस्मिन् गृहकद्वये क्रमेण पार्श्वजिनो वीरजिनश्चेति प्रथमपतिस्थापना । अथ | द्वितीयपतिस्थापना दर्यते-तत्र च प्रथमगृहकद्वये क्रमेण भरतः सगरश्चक्रवर्ती स्थाप्येते, ततस्त्रयोदशगृहकेषु क्रमेण शून्यानि त्रयोदश, ततः क्रमेण पञ्चसु गृहकेषु पञ्च चक्रवर्तिनो मघवत्सनत्कुमारशान्तिकुन्थुअरनामानः स्थाप्याः, ततः शून्यं, तदनेतनगृहे सुभूमश्चक्रवर्ती, ततो गृहकद्वये क्रमेण द्वे शून्ये, तदतनगृहे महापद्मश्चक्रवर्ती, तदनेतनगृहे शून्यं, तदनेतनगृहकद्वये क्रमेण हरिषेणजयनामानौ चक्रवर्तिनी, ततः परस्मिन् गृहे शून्यं, ततः परस्मिन् गृहके चक्री ब्रह्मदत्तः, ततः परयोर्गृहकयोः क्रमेण द्वे शून्ये, इति द्वितीयपजिस्थापना । इदानीं तृतीयपलिस्थापना-दशसु गृहकेषु क्रमेण दश शून्यानि, ततः पञ्चसु गृहकेषु क्रमेण पञ्च केशवा-वासुदेवास्त्रिपृष्ठद्विपृष्ठस्वयम्भूपुरुषोत्तमपुरुषसिंहाभिधानाः, ततो गृहकेषु पञ्चसु क्रमेण पञ्च शून्यानि, सूत्रे तु 'पणसुन्न'मिति पञ्चानां शून्यानां समाहारः पञ्चशून्यमिति | समाहारविवक्षया एकवचनं, ततः परस्मिन् गृहे केशवो-वासुदेवः पुरुषपुण्डरीकाभिधानः, ततः परस्मिन् गृहे शून्यं, ततः परस्मिन् गृहे | | केशी-दत्ताभिधानः, ततः परस्मिन् गृहकद्वये क्रमेण शून्यद्वयं, ततः परस्मिन् गृहे केशवो नारायणनामा, ततः परस्मिन् गृहकद्वये क्रमेण शून्यद्वयं, ततः परस्मिन् गृहे केशवः-कृष्णाभिधानः, ततः परस्मिन् गृहकत्रये क्रमेण शून्यत्रयमिति तृतीयपलिस्थापना । इदानीं चतुर्थपतिस्थापना-तत्र प्रथमगृहके वृषभजिनभरतचक्रिणोर्द्वयोरप्युच्चत्वं कायस्य पञ्च धनुःशतानि, द्वितीयगृहके अजितजिनसगरचक्रिणोद्ध
2॥
JainEducationi
For Private Personel Use Only
Tw.jainelibrary.org