________________
.प्र. सा. १७
सीई १८ य पंचवन्ना १९ य । तीसा २० य दस २१ य एवं २२ सयं २३ च बावन्तरी २४ चेव
॥ ३८७ ॥
'चउ' इत्यादि गाथात्रयं, तत्र प्रथमजिनस्य सर्वायुश्चतुरशीतिः पूर्वाणां लक्षाणि, श्री अजितस्य द्विसप्ततिः पूर्वलक्षाः, श्रीसम्भवस्य षष्टिः पूर्वलक्षाः श्रीअभिनन्दनस्य पञ्चाशत्पूर्वलक्षाः, श्री सुमतेश्चत्वारिंशत्पूर्वलक्षाः, श्रीप्रद्मप्रभस्य त्रिंशत्पूर्वलक्षाः, श्रीसुपार्श्वस्य विंशतिः पूर्वलक्षाः, श्रीचन्द्रप्रभस्य दश पूर्वलक्षाः, श्रीसुविधेद्वे पूर्वलक्षे, श्रीशीतलस्य एकं पूर्वलक्षं ॥ ३८५ ॥ तथा श्रेयांसस्य चतुरशीतिर्वर्षाणां शतसहस्राणि लक्षाणीत्यर्थः, श्रीवासुपूज्यस्य द्विसप्ततिर्वर्षलक्षाः, श्रीविमलस्य षष्टिवर्षलक्षाः, श्रीअनन्तस्य त्रिंशद्वर्षलक्षाः, श्रीधर्मस्य दश वर्षलक्षाः, श्रीशान्तेरेकं वर्षलक्षं ॥ ३८६ ।। तथा श्री कुन्थोः पञ्चनवतिर्वर्षसहस्राः सर्वायुः श्रीअरजिनस्य चतुरशीतिर्वर्षसहस्राः, श्रीमल्लेः पञ्चपञ्चाशद्वर्षसहस्राः, श्रीसुव्रतस्य त्रिंशद्वर्षसहस्राः, श्रीनमेर्दश वर्षसहस्राणि श्रीनेमेरेकं वर्षसहस्रं, श्रीपार्श्वनाथस्य एकं वर्षशतं, श्रीवीरजिनस्य च द्विसप्त तिरेव वर्षाणीति ॥ ३८७ ॥ ३२ ॥ इदानीं 'सिवगमणपरिवारो'त्ति त्रयस्त्रिंशत्तमं द्वारमाह
Jain Education International
एगो भगवं वीरो तेत्तीसाऍ सह निव्बुओ पासो । छत्तीसेहिं पंचहि सएहिं नेमी उसिद्धिगओ ॥ ३८८ ॥ पंचहिं समणसएहिं मल्ली संती उ नवसएहिं तु । अट्ठसएणं धम्मो सएहिं छहिं वासुपुज्जजिणो ॥ ३८९ ॥ सत्तसहस्साणंतइजिणस्स विमलस्स छस्सहस्साइं । पंच सयाई सुपासे पउमाभे तिणि अट्ठसया ॥ ३९० ॥ दसहिं सहस्सेहिं उसहो सेसा उ महस्सपरिवुडा सिद्धा । तित्थयरा उदुवालस परिनिट्ठियअट्टकम्मभरा ॥ ३९१ ॥
For Private & Personal Use Only
www.jainelibrary.org