SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ९७ ॥ Jain Education In 'गो' इत्यादि गाथात्रयं तत्र एक:- एकाकी सन् भगवान् श्रीवीरो 'निर्वृत्तो' निर्वाणं ययौ त्रयस्त्रिंशता साधुभिः सह निर्वृत्तः पार्श्वजिनः, षटूत्रिंशदधिकैः पथ्यमिः शतैः सह नेमिजिनः सिद्धिं गतः ॥ ३८८ ॥ पञ्चभिः श्रमणशतैः सह मल्लिजिनः, शान्तिजिनस्तु नवभिः श्रमणशतैः समं अष्टोत्तरशतेन सह धर्मजिनः, शतैः षड्तिः सार्धं वासुपूज्यजिनः सिद्धिं गतः ॥ ३८९ ॥ तथाऽनन्तजिज्जिनस्य निर्वाणं गच्छतः सप्त सहस्राणि परिवारः, विमलनाथस्य षट् सहस्राणि पञ्च शतानि च 'सुपार्श्वे' सुपार्श्वस्य, 'पद्माभे' पद्मप्रभस्य त्रीण्यष्टोत्तराणि शतानि अन्ये त्र्युत्तराण्यष्टौ शतानीति व्याख्यानयन्ति आवश्यक टिप्पन के तु पद्मप्रभतीर्थकृद्विषये " त्रीण्यष्टोतरशतानि साधूनां निर्वृत्तानीत्यवगन्तव्यं, त्रिगुणमष्टोत्तरं शतमित्यर्थः, त्रीणि शतानि चतुर्विंशत्यधिकानीतियावत्” इति व्याख्यातं, तत्त्वं पुनः केवलिनो विदन्ति ॥ ३९० ॥ तथा दशभिः सहस्रै ऋषभः - प्रथमो जिनः परमानन्दश्रियमाशिलेष, शेषाः पुनरजितस|म्भवाभिनन्दनसुमचन्द्रप्रभसुविधिशीतलश्रेयांसकुन्थुनाथारजिन मुनिसुव्रतनमिलक्षणा द्वादश तीर्थकृतः प्रत्येकमेकसहस्रपरिवृताः परिनिष्ठिताष्टकर्मभराः तिसन्तः सिद्धा इति ॥ ३९९ ॥ ३३ ॥ इदानीं 'निव्वाणगमणठाणं 'ति चतुस्त्रिंशत्तमं द्वारमाह अट्ठावयचंपुज्जित पावासम्मेयसेलसिहरेसु । उसभवसुपुज्जनेमी वीरो सेसा य सिद्धिगया ॥ ३९२॥ 'अट्ठेत्यादि, अष्टापदे चम्पायां उज्जयन्ते अपापायां पुरि सम्मेतशैलशिखरे च यथासङ्ख्येन ऋषभो वासुपूज्यो नेमिर्जिनो वीरः शेषजिनाश्च सिद्धिं गताः, अष्टापदपर्वते श्री ऋषभस्वामी सिद्धिमगमत्, चम्पायां नगर्यां वासुपूज्यः, उज्जयन्तगिरौ नेमिनाथः, अपापायां नगर्या श्रीमहावीरः शेषास्तु उक्तव्यतिरिक्ता अजितादयो विंशतिस्तीर्थकृतः सम्मेतशैलशिखरे इति ॥ ३९२ ॥ सम्प्रति 'जिणंतराई 'ति पञ्चत्रिंशं द्वारमाह For Private & Personal Use Only ३३ शि वगमन परिवारः ३४ निर्वा णगमन स्थानं गा. ३८८-९२ ॥ ९७ ॥ w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy