SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ 6 + प्रव० सा- रोद्धारे तत्त्वज्ञानवि० ७४ ॥१३॥ REERSAARCASSMENT पाणिद्वयश्च ४ श्रीसुमतेस्तुम्बुरुर्यक्षः श्वेतवर्णो गरुडवाहनश्चतुर्भुजो वरदशक्तियुक्तदक्षिणपाणिद्वयो गदानागपाशयुक्तवामपाणिद्वयश्च ५ २६ यक्षाः |श्रीपद्मप्रभस्य कुसुमो यक्षो नीलवर्ण: कुरङ्गवाहनश्चतुर्भुजः फलाभययुक्तदक्षिणपाणिद्वयो नकुलाक्षसूत्रयुक्तवामपाणिद्वयश्च ६ श्रीसुपार्श्वस्य गा. ३७३मातङ्गो यक्षो नीलवर्णो गजवाहनश्चतुर्भुजो बिल्वपाशयुक्तदक्षिणपाणिद्वयो नकुलाङ्कुशयुक्तवामपाणिद्वयश्च ७ श्रीचन्द्रप्रभस्य विजयो यक्षो हरितवर्णस्त्रिलोचनो हंसवाहनो द्विभुजः कृतदक्षिणहस्तचक्रो वामहस्तधृतमुद्रश्च ८ श्रीसुविधिजिनस्याजितो यक्षः श्वेतवर्णः कूर्मवाहनश्चतुर्भुजो मातुलिङ्गाक्षसूत्रयुक्तदक्षिणपाणिद्वयो नकुलकुन्तकलितवामपाणिद्वयश्च ९ श्रीशीतलस्य ब्रह्मा यक्षश्चतुर्मुखस्त्रिनेत्रः सितवर्णः पद्मा-18 सनोऽष्टभुजो मातुलिङ्गमुद्गरपाशकाभययुक्तदक्षिणपाणिचतुष्टयो नकुलगदाङ्कुशाक्षसूत्रयुक्तवामपाणिचतुष्टयश्च १० श्रीश्रेयांसस्य मनुजो |यक्षो मतान्तरेणेश्वरो धवलवर्णस्त्रिनेत्रो वृषभवाहनश्चतुर्भुजो मातुलिङ्गगदायुक्तदक्षिणपाणिद्वयो नकुलाक्षसूत्रयुक्तवामपाणिद्वयश्च ११ श्रीवासुपूज्यस्य सुरकुमारो यक्षः श्वेतवर्णो हंसवाहनश्चतुर्भुजो बीजपूरकवीणान्वितदक्षिणपाणिद्वयो नकुलकधनुर्युक्तवामपाणिद्वयश्च १२ ॥३७३॥ |श्रीविमलस्य षण्मुखो यक्षः श्वेतवर्णः शिखिवाहनो द्वादशभुजः फलचक्रबाणखड्गपाशकाक्षसूत्रयुक्तदक्षिणपाणिषट्को नकुलचक्रधनुःफलकाङ्कुशाभययुक्तवामपाणिषट्कश्च १३ श्रीअनन्तस्य पातालो यक्षत्रिमुखो रक्तवर्णो मकरवाहनो षड्भुजः पद्मखड्गपाशयुक्तदक्षिणपाणित्रयो नकुलफलकाक्षसूत्रयुक्तवामपाणित्रयश्च १४ श्रीधर्मस्य किन्नरो यक्षत्रिमुखो रक्तवर्णः कूर्मवाहनः षड्भुजो बीजपूरकगदाभययुक्तदक्षिणपा-18 णित्रयो नकुलपद्माक्षमालायुक्तवामपाणित्रयश्च १५ श्रीशान्तिनाथस्य गरुडो यक्षो वराहवाहनः क्रोडवदनः श्यामरुचिश्चतुर्भुजो बीजपूरकपद्मान्वितदक्षिणकरद्वयो नकुलाक्षसूत्रयुक्तवामपाणिद्वयश्च १६ श्रीकुन्थोर्गन्धर्वयक्षः श्यामवर्णो हंसवाहनश्चतुर्भुजो वरदपाशकान्वितद्क्षिणपाणिद्वयो मातुलिङ्गाङ्कशाधिष्ठितवामकरद्वयश्च १७ श्रीअरजिनस्य यक्षेन्द्रो यक्षः षण्मुखत्रिनेत्रः श्यामवर्णः शङ्खवाहनो द्वादशभुजो SCRECS ॥९३॥ 29-2 Jain Education For Private & Personel Use Only MMww.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy