SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Jain Educat श्रीशान्तिनाथादारभ्य प्रत्येकं लक्षत्रयं श्राविकाणां यावन्महावीरं, तदुपरि च - त्रिलक्षोपरि च त्रिनवत्यादयः सहस्राः, तत्र श्रीशान्तेर्लक्षत्रयं त्रिनवतिसहस्राधिकं कुन्थोर्लक्षत्रयमेकाशीतिसहस्राधिकं, अरजिनस्य लक्षत्रयं द्विसप्ततिसहस्राधिकं, मल्लेर्लक्षत्रयं सप्ततिसहस्राधिकं, मुनिसुव्रतस्य लक्षत्रयं पञ्चाशत्सहस्राधिकं ॥ ३७१ || श्रीनमेर्लक्षत्रयमष्टचत्वारिंशत्सहस्राधिकं, श्रीनेमेर्लक्षत्रयं षट्त्रिंशत्सहस्राधिकं, श्रीपार्श्वस्य लक्षत्रयमेकोनचत्वारिंशत्सहस्राधिकं, वीरजिनस्य च लक्षत्रयमष्टादशसहस्रैरधिकं श्राविकाणां मानमेतच्चतुर्विंशतेर्जिनवराणामिति ॥ ३७२ ॥ ॥ २५ ॥ इदानीं 'जिजक्ख'त्ति षड्विंशतितमं द्वारं विवरीतुमाह जक्खा गोमुह १ महजक्ख २ तिमुह ३ ईसर ४ तुंबुरु ५ कुसुमो ६ । मायंगो ७ विजया ८ जिय ९ बंभो १० मणुओ ११ य सुरकुमरो १२ ॥ ३७३ ॥ छम्मुह १३ पयाल १४ किन्नर १५ गरुडो १६ गंधव १७ तह य जक्खिदो १८ । कूबर १९ वरुणो २० भिउडी २१ गोमेहो २२ वामण २३ मयंको २४ ॥ ३७४ ॥ 'जक्खो' इत्यादिगाथाद्वयं, यक्षा भक्तिदक्षास्तीर्थकृतामिमे, यथा प्रथमजिनस्य गोमुखो यक्षः सुवर्णवर्णो गजवाहनश्चतुर्भुजो वरदाक्षमालिकायुक्तदक्षिणपाणिद्वयो मातुलिङ्गपाशकान्वितवामपाणिद्वयश्च १ अजितनाथस्य महायक्षाभिधो यक्षश्चतुर्मुखः श्यामवर्णः करीन्द्रवाहनोऽष्टपाणिर्वरदमुद्गराक्षसूत्रपाशकान्वितदक्षिणपाणिचतुष्टयो बीजपूरकाभयाङ्कुशशक्तियुक्तवामपाणिचतुष्कश्च २ श्रीसम्भवजिनस्य त्रिमुखो नाम यक्षस्त्रिवदनस्त्रिनेत्रः श्यामवर्णो मयूरवाहनः षड्भुजो नकुलगदाभययुक्तदक्षिणकरकमलत्रयो मातुलिङ्गनागाक्षसूत्रयुक्तवामपाणिपद्मत्रयश्च ३ श्रीअभिनन्दनस्य ईश्वरो यक्षः श्यामकान्तिर्गजवाहनश्चतुर्भुजो मातुलिङ्गाक्षसूत्रयुक्तदक्षिणकरकमलद्वयो नकुलाङ्कुशान्वितवाम For Private & Personal Use Only www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy