________________
बीजपूरकबाणखड्ग मुद्गरपाशकाभययुक्तदक्षिणकरषट्को नकुलधनुःफलकशूलाकुशाक्षसूत्रयुक्तवामपाणिषट्कश्च १८ श्रीमल्लिजिनस्य कूबरो | यक्षश्चतुर्मुख इन्द्रायुधवर्णो गजवाहनोऽष्टभुजो वरदपरशुशूलाभययुक्तदक्षिणपाणिचतुष्टयो बीजपूरकशक्तिमुद्राक्षसूत्रयुतवामपाणिचतुष्टयश्च
अन्ये कूबरस्थाने कुबेरमाहुः १९ श्रीमुनिसुव्रतस्य वरुणो यक्षश्चतुर्मुखत्रिनेत्रोऽसितवर्णो वृषभवाहनो जटामुकुटभूषितोऽष्टभुजो बीजपूर| कगदाबाणशक्तियुक्तदक्षिणकरकमलचतुष्को नकुलपद्मधनुःपरशुयुतवामपाणिचतुष्टयश्च २० श्रीनमिजिनस्य भृकुटियक्षश्चतुर्मुखस्त्रिनेत्रः सुवर्णवर्णो वृषभवाहनोऽष्टभुजो बीजपूरकशक्तिमुद्राभययुक्तदक्षिणकरचतुष्टयो नकुलपरशुवज्राक्षसूत्रयुक्तवामकरचतुष्टयश्च २१ श्रीनेमिजिनस्य गोमेधो यक्षत्रिमुखः श्यामकान्तिः पुरुषवाहनः षड्भुजो मातुलिंगपरशुचक्रान्वितदक्षिणकरत्रयो नकुलशूलशक्तियुक्तवामपाणित्रयश्च २२ श्रीपार्श्वजिनस्य वामनो यक्षो मतान्तरेण पार्श्वनामा यक्षो गजमुख उरगफणमण्डितशिराः श्यामवर्णः कूर्मवाहनश्चतुर्भुजो बीजपूरकोरगयुक्तदक्षिणपाणिद्वयो नकुलभुजगयुक्तवामपाणियुगश्च २३ श्रीवीरजिनस्य मातङ्गो यक्षः श्यामवर्णो गजवाहनो द्विभुजो नकुलयुक्तदक्षिणभुजो वामकरधृतबीजपूरकश्चेति २४ ।। ३७४ ॥ २६ ॥ इदानीं 'जिणदेवीओ'त्ति सप्तविंशतितमं द्वारमाह
देवीओ चक्केसरी १ अजिया २ दुरियारि ३ कालि ४ महकाली५ । अचुय ६ संता ७ जाला ८ सुतारया ९ ऽसोय १० सिरिवच्छा ११ ॥ ३७५॥ पवर १२ विजयं १३ कुसा १४ पण्णत्ती १५ निव्वाणि १६ अचुया १७ धरणी १८ । वइरोह १९ ऽछुत्त २० गंधारि २१ अंब २२ पउमावई २३ सिद्धा २४ ॥ ३७६ ॥ 'देवी'त्यादि गाथाद्वयं, तत्राद्यजिनस्य चक्रेश्वरी देवी, मतान्तरेणाप्रतिचक्रा, सुवर्णवर्णा गरुडवाहना अष्टकरा वरदबाणचक्रपाशयुक्त
Jain Education
For Private & Personel Use Only
Karw.jainelibrary.org