________________
Jain Educatio
स्तावलक्षद्वयं श्राद्धानां द्विलक्षोपरि च यदधिकं भवति तन्निवेद्यते तत्र तृतीयगाथावर्ति 'सहस्स' तिपदस्य सर्वत्राभिसम्बन्धात् अष्टनवतिः सहस्रा अजितजिनस्य, लक्षद्वयमष्टनवतिसहस्राधिकमित्यर्थः, त्रिनवतिः श्रीसम्भवस्य, लक्षद्वयं त्रिनवतिसहस्राधिकमित्यर्थः, अष्टाशीतिश्च श्रीअभिनन्दनस्य, लक्षद्वयमष्टाशीतिसहस्राधिकमित्यर्थः || ३६४ || एकाशीतिः श्रीसुमतेः, लक्षद्वयमेकाशीतिसहस्राधिकमित्यर्थः, षट्सप्ततिः श्रीपद्मप्रभस्य, लक्षद्वयं षट्सप्ततिसहस्राधिकमित्यर्थः, सप्तपञ्चाशच श्रीसुपार्श्वस्य, लक्षद्वयं सप्तपञ्चाशत्सहस्राधिकमित्यर्थः, तथा पञ्चाशचन्द्रप्रभस्य, लक्षद्वयं पञ्चाशत्सहस्राधिकमित्यर्थः, एकोनत्रिंशत् श्रीसुविधेः, लक्षद्वयमेकोनत्रिंशत्सहस्राधिकमित्यर्थः, नवाशीतिः श्रीशीतलस्य, | लक्षद्वयं नवाशीतिसहस्राधिकमित्यर्थः, एकोनाशीतिः श्रीश्रेयांसस्य, लक्षद्वयं एकोनाशीतिसहस्राधिकमित्यर्थः, पञ्चदश श्रीवासुपूज्यस्य, ल| क्षद्वयं पञ्चदशसहस्राधिकमित्यर्थः, अष्ठैव श्रीविमलजिनस्य, लक्षद्वयं अष्टसहस्राधिकमित्यर्थः ॥ ३६५॥ षट् सहस्राः श्री अनन्तजिनस्य, लक्षद्वयं षट्सहस्राधिकमित्यर्थः, चत्वारः सहस्राः श्रीधर्मजिनस्य, लक्षद्वयं चतुर्भिः सहस्रैरधिकमित्यर्थः, नवतिसहस्राः श्रीशान्तेः, लक्षद्वयं नवति - सहस्राधिकमित्यर्थः, ततः - श्री शान्तिनाथादनन्तरं कुन्थुप्रभृतीनां तीर्थकृतां महावीरपर्यन्तानामेकं लक्षं श्राद्धानां लक्षोपरि च यत्सङ्ख्यास्थानं | तदुच्यते--यथा एकोनाशीतिः श्रीकुन्थोः, लक्षमेकमेकोनाशीतिसहस्राधिकमित्यर्थः, चतुरशीतिः श्रीअरजिनस्य, लक्षमेकं चतुरशीतिसह| स्राधिकमित्यर्थः || ३६६ || त्र्यशीतिः श्रीमल्लेः, लक्षमेकं त्र्यशीतिसहस्राधिकमित्यर्थः, द्विसप्ततिः श्रीमुनिसुव्रतस्य, लक्षमेकं द्विसप्ततिसहस्राधिकमित्यर्थः, सप्ततिर्नमेः, लक्षमेकं सप्ततिसहस्राधिकमित्यर्थः, एकोनसप्ततिः श्रीनेमेः, लक्षमेकमेकोनसप्ततिसहस्राधिकमित्यर्थः, चतुःषष्टिः श्रीपार्श्वस्य, लक्षमेकं चतुःषष्टिसहस्राधिकमित्यर्थः, एकोनषष्टिसहस्राः श्रीवीरजिनस्य, लक्षमेकमेकोनषष्टिसहस्राधिकमित्यर्थः || ३६७ || इति जिनवरेन्द्रचतुर्विंशतेः सम्बन्धिनां श्रावकाणां मानं क्रमेण ज्ञातव्यम् ॥ २४ ॥ इदानीं 'सङ्घीणं' ति पञ्चविंशतितमं द्वारं निर्दिदिक्षुराह -
ational
For Private & Personal Use Only
www.jainelibrary.org